भोपालनगरे ‘रन फॉर लाइफ’ मैराथन-धावने जनसमुद्रः, षट्सहस्राधिकैः जनैः धावनं कृत्वा मादकद्रव्येभ्यः दूरं स्थातुं संकल्पः कृतः
भोपालनगरम्, २६ जुलाईमासः (हि.स.)। मध्यप्रदेश-आरक्षक-विभागस्य प्रदेशव्यापिनः “मादकद्रव्येभ्यः दूरी आवश्यकी २.०” अभियानस्य अन्तर्गतं रविवासरे राजधानी-नगरे आयोजिते “रन फॉर लाइफ” मैराथन-धावने जनसमुद्रः समुपस्थितः। टी.टी.-नगर-क्रीडाङ्गणात् आरब्धायां अस्
भोपाल में 'रन फॉर लाइफ' मैराथन में उमड़ा जनसैलाब


भोपाल में 'रन फॉर लाइफ' मैराथन में उमड़ा जनसैलाब


भोपालनगरम्, २६ जुलाईमासः (हि.स.)। मध्यप्रदेश-आरक्षक-विभागस्य प्रदेशव्यापिनः “मादकद्रव्येभ्यः दूरी आवश्यकी २.०” अभियानस्य अन्तर्गतं रविवासरे राजधानी-नगरे आयोजिते “रन फॉर लाइफ” मैराथन-धावने जनसमुद्रः समुपस्थितः। टी.टी.-नगर-क्रीडाङ्गणात् आरब्धायां अस्यां जागरूकता-मैराथन-धावने प्रायः षट्सहस्राधिकाः सहभागिनः भागं गृहीत्वा मादकद्रव्य-सेवनस्य विरुद्धम् ऐक्यस्य सन्देशम् अयच्छन्। कार्यक्रमे विद्यार्थिनः, क्रीडकाः, स्वयंसेवी-संस्थानां सदस्याः, सामाजिक-सङ्घटनानां प्रतिनिधयः, नगर-रक्षा-समित्याः सदस्याः, आरक्षक-अधिकारिणः तथा बहुसंख्यया सामान्य-नागरिकाः उत्साहपूर्वकं सहभागिनः अभवन्।

भोपाल-आरक्षक-आयुक्तालयस्य सामाजिक-न्याय-विभागस्य च संयुक्त-तत्त्वावधाने आयोजितस्य अस्य कार्यक्रमस्य उद्देश्यं युवानः सामान्यजनांश्च मादकद्रव्य-सेवनस्य दुष्परिणामेषु जागरूकान् कृत्वा स्वस्थां सकारात्मक-जीवनशैलीं स्वीकर्तुं प्रेरयितुम् आसीत्। मैराथन-धावनकाले सर्वैः सहभागिभिः “से नो टु ड्रग्स” इति सन्देशः प्रदत्तः तथा मादकद्रव्य-मुक्त-समाजस्य निर्माणाय संकल्पः स्वीकृतः।

त्रिषु वर्गेषु धावनस्य आयोजनम्

मैराथन-धावनस्य आयोजनं द्वि-किलोमीटर-वॉकथॉन, पञ्च-किलोमीटर-धावनम्, दश-किलोमीटर-मैराथनम् इति त्रिषु वर्गेषु अभवत्। त्रिरङ्ग-ध्वजैः जागरूकता-सन्देशयुक्तैः विज्ञापनैश्च सह धावमानाः सहभागिनः सम्पूर्णे नगरे मादकद्रव्य-मुक्तेः सन्देशं प्रसारितवन्तः। आयोजनकाले युवसु विशेषः उत्साहः दृष्टः।

आरक्षक-आयुक्तेन मादकद्रव्य-मुक्तेः शपथः प्रदत्त:

भोपाल-आरक्षक-आयुक्तः सञ्जय-कुमारः सर्वान् सहभागिनः मादकद्रव्येभ्यः दूरं स्थातुं समाजं च मादकद्रव्य-मुक्तं कर्तुं शपथं कारितवान्। सः विजेतृभ्यः पदकानि प्रशस्तिपत्राणि च प्रदाय सम्मानितवान् तथा सर्वेषां सहभागिनाम् उत्साहस्य सहयोगस्य च प्रशंसाम् अकरोत्।

“मादकद्रव्य-सेवनं केवलं व्यक्तिम् एव न, अपितु समग्रं परिवारमपि विनाशयति”

ए.डी.जी. डी. श्रीनिवास-वर्मा अवदत् यत् अस्य अभियानस्य उद्देश्यं प्रदेशस्य प्रत्येकं नागरिकं प्रति एषः सन्देशः प्रेषयितुं यत् मादकद्रव्येभ्यः दूरं स्थित्वा स्वस्थं सकारात्मकं च जीवनं यापनीयम्। सः अवदत् यत् मादकद्रव्य-व्यसनं केवलं व्यक्तिमेव न, अपितु समग्रस्य परिवारस्य भविष्यमपि प्रभावितं करोति। अतः समाजस्य प्रत्येकं वर्गः अस्य विरुद्धं जागरूकः भवेत्।

“मादकद्रव्यस्य विरुद्धे समाजस्यापि उत्तरदायित्वम् अस्ति”

अपर-आरक्षक-आयुक्ता डाॅ. मोनिका-शुक्ला अवदत् यत् मादकद्रव्यस्य विरुद्धः संघर्षः केवलम् आरक्षक-विभागस्य न, अपितु सम्पूर्णस्य समाजस्य उत्तरदायित्वम् अस्ति। नववंशस्य पुरातनवंशस्य च संयुक्तरूपेण अस्य सामाजिक-दोषस्य विरुद्धम् अभियानं चालयेयुः, तदैव मादकद्रव्य-मुक्तस्य सुरक्षितस्य च समाजस्य निर्माणं सम्भवम्।

विजेतारः सम्मानिताः

दश-किलोमीटर-तथा पञ्च-किलोमीटर-धावनयोः विविधेषु आयुवर्गेषु विजेतारः आरक्षक-आयुक्तेन पदकैः प्रशस्तिपत्रैश्च सम्मानिताः। दश-किलोमीटर-धावने पञ्चचत्वारिंशदधिक-वयस्क-पुरुष-वर्गे आरक्षक-आयुक्तः सञ्जय-कुमारः प्रथमः अभवत्। अन्येषु वर्गेष्वपि महिला-पुरुष-सहभागिभिः उत्कृष्टं प्रदर्शनं कृतम्। कार्यक्रमस्य अन्ते आरक्षक-अधिकारिभिः सर्वेभ्यः सहभागिभ्यः, स्वयंसेवी-संस्थाभ्यः, विद्यालयेभ्यः, सामाजिक-सङ्घटनेभ्यः तथा नागरिकेभ्यः कृतज्ञता ज्ञापिता तथा मादकद्रव्य-मुक्तस्य, सुरक्षितस्य, स्वस्थस्य च भोपालस्य निर्माणे निरन्तर-सहयोगस्य आह्वानं कृतम्।

Hindusthan Samachar / Divya Ranjan