उत्तरप्रदेश-सर्वकारः शिक्षा-स्वास्थ्य-क्षेत्रे प्रति संवेदनशीलः - ब्रजेश-पाठकः
लखनऊनगरम्, २६ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश-पाठकः रविवासरे लखनऊ-पी.जी.-महा-विद्यालयस्य सभागारे ‘मुख्यमन्त्री-शिक्षक-नगदरहित-चिकित्सा-योजनायाः’ शुभारम्भम् अकरोत्। अस्मिन् अवसरे आयोजितं कार्यक्रमम् सम्बोधयन् ब्रजेश-पाठकः अवद
मुख्यमंत्री कैसलेस चिकित्सा योजना का शुभारम्भ करते उप मुख्यमंत्री ब्रजेश पाठक


लखनऊनगरम्, २६ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश-पाठकः रविवासरे लखनऊ-पी.जी.-महा-विद्यालयस्य सभागारे ‘मुख्यमन्त्री-शिक्षक-नगदरहित-चिकित्सा-योजनायाः’ शुभारम्भम् अकरोत्। अस्मिन् अवसरे आयोजितं कार्यक्रमम् सम्बोधयन् ब्रजेश-पाठकः अवदत् यत् उत्तरप्रदेश-सर्वकारः शिक्षा-स्वास्थ्य-क्षेत्रे प्रति समानरूपेण संवेदनशीलः अस्ति। ‘मुख्यमन्त्री-शिक्षक-नगदरहित-चिकित्सा-योजना’ उच्चशिक्षा-विभागेन सम्बद्धानां शिक्षकाणां तेषां परिवारजनानां च सम्मानस्य स्वास्थ्य-सुरक्षायाश्च दृष्ट्या ऐतिहासिक: प्रयत्न: अस्ति।

ब्रजेश-पाठकः अवदत् यत् एषा योजना प्रदेशस्य उच्चशिक्षा-विभागस्य १.२८ लक्षाधिक-शिक्षकेभ्यः तेषां आश्रित-परिवारजनेभ्यश्च प्रतिवर्षं पञ्चलक्ष-रूप्यकपर्यन्तं निःशुल्कां गुणवत्तापूर्णां नगदरहितां च चिकित्सासुविधां प्रदातुं ऐतिहासिकं पदक्षेपम् अस्ति। एष: प्रयत्न: शिक्षकेभ्यः स्वास्थ्य-सुरक्षा-कवचं अधिकं सुदृढं करोति तथा तेषां सम्मान-कल्याणौ प्रति सर्वकारस्य दृढ-प्रतिबद्धतां प्रदर्शयति।

सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र-मोदिनः तथा मुख्यमन्त्रिणः योगी-आदित्यनाथस्य नेतृत्वे उत्तरप्रदेश-सर्वकारः शिक्षा-स्वास्थ्य-क्षेत्रयोः संवेदनशीलैः, समर्पितैः, जनहितकारी-निर्णयैश्च प्रदेशं नूतन-उन्नतिशिखराणि प्रति अग्रसरं करोति। स्वस्थाः शिक्षकाः, सशक्ता शिक्षा एव विकसित-उत्तरप्रदेशस्य दृढा आधारशीला अस्ति।

अस्मिन् अवसरे विधान-परिषदः सदस्यः मुकेश-शर्मा, नेशनल-पी.जी.-महा-विद्यालयस्य प्राचार्यः प्रो. देवेन्द्र-कुमार-सिंहः, मुख्य-विकास-अधिकारी प्रफुल्ल-शर्मा, उच्चशिक्षायाः जनपद-नोडल-अधिकारिणी प्रो. शिवानी-श्रीवास्तव: तथा अन्ये गणमान्यजनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan