मुख्यमंत्री डॉ. यादवः कारगिल विजय दिवसे अमर वीरेभ्यो विहितं नमनम्
भोपालम्, 26 जुलाईमासः (हि.स.) । मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादव कार्गिलविजयदिवसस्य अवसरे मातृभूमेः रक्षणार्थं स्वप्राणानां सर्वोच्चबलिदानं कृतवन्तः अमरवीरान् श्रद्धया ननाम। मुख्यमन्त्री डॉ. यादवो रविवासरे सामाजिकमाध्यमे एक्स इत्यत्र प्रक
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


भोपालम्, 26 जुलाईमासः (हि.स.) ।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादव कार्गिलविजयदिवसस्य अवसरे मातृभूमेः रक्षणार्थं स्वप्राणानां सर्वोच्चबलिदानं कृतवन्तः अमरवीरान् श्रद्धया ननाम।

मुख्यमन्त्री डॉ. यादवो रविवासरे सामाजिकमाध्यमे एक्स इत्यत्र प्रकाशिते स्वसन्देशे अवदत् यत् कार्गिलयुद्धे दुर्गमशिखरेषु अदम्यसाहसं पराक्रमं च प्रदर्शयन्तः भारतीयजवानाः तिरङ्गध्वजस्य गौरवरक्षणं कृत्वा स्वर्णिमम् इतिहासं निर्मितवन्तः। राष्ट्रं सदैव एतेषां वीरजवानानाम् ऋणी भविष्यति।

उल्लेखनीयं यत् कार्गिलविजयदिवसः प्रतिवर्षं २६ जुलै दिनाङ्के आचर्यते। अयं दिवसः भारतीयसेनायाः अदम्यसाहसस्य, शौर्यस्य, बलिदानस्य च स्मरणं कारयति। एतैरेव वीरैः १९९९ तमे वर्षे कार्गिलयुद्धे विजयः प्राप्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani