Enter your Email Address to subscribe to our newsletters

शिमला, 26 जुलाईमासः (हि.स.)।
हिमाचलप्रदेशस्य मुख्यमन्त्री ठाकुरसुखविन्द्रसिंहसुक्खूः रविवासरे शाहपुरविधानसभाक्षेत्रस्य बोह-प्रदेशे मेघविदारणदुर्घटनया प्रभावितक्षेत्राणां भ्रमणं कृत्वा राहतपुनर्वासकार्याणि निरीक्षितवान्। अस्मिन् अवसरे सः बोह-राजकीयवरिष्ठमाध्यमिकविद्यालये स्थापितस्य राहतशिविरस्य निरीक्षणं कृत्वा तत्र निवसद्भिः प्रभावितपरिवारैः सह मिलित्वा तेषां कुशलक्षेमम् अपृच्छत्।
मुख्यमन्त्री उक्तवान् यत् येषां परिवाराणां गृहाणि अस्याम् आपदायां समूलं विनष्टानि, तेषां गृहनिर्माणार्थं ₹७.५० लक्षपरिमिता आर्थिकसहायता प्रदास्यते। वस्त्राणां, पात्राणां, अन्येषां च आवश्यकगृहसामग्रीणां क्रयार्थम् एकलक्षपरिमिता सहायता अपि प्रदास्यते। येषां प्रभावितपरिवाराणां निवासार्थं भूमिः नास्ति, तेषां कृते आवश्यकतानुसारं शासकीयभूमिः अपि उपलब्धा कारयिष्यते।
सः अवदत् यत् येषां परिवाराणां गावः महिष्यः वा आपदायां मृताः, तेभ्यः प्रतिपशु ₹५५ सहस्राणि प्रदास्यन्ते। येषां अजाः मृताः, तेभ्यः प्रत्यजं ₹१५ सहस्राणि सहायतारूपेण प्रदास्यन्ते। येषां गृहाणि बाढजलस्य अथवा आपदायाः कारणेन क्षतिग्रस्तानि, तेभ्यः एकलक्षपरिमिता राहतसहायता प्रदास्यते। तथैव क्षतिग्रस्तदुकानानां स्वामिभ्यः हानिपरिमाणानुसारं ₹५० सहस्रात् आरभ्य एकलक्षपर्यन्तं सहायता प्रदास्यते।
मुख्यमन्त्री अवदत् यत् येषां कृषकाणां सस्यानि नष्टानि, तेभ्यः प्रतिकनालं ₹५ सहस्राणां परिमाणेन क्षतिपूर्तिः प्रदास्यते। ये परिवाराः अस्थायिरूपेण भाटकगृहेषु निवसितुं विवशाः भविष्यन्ति, तेभ्यः प्रतिमासं ₹५ सहस्राणि भाटकसहायतारूपेण प्रदास्यन्ते। एतदतिरिक्तं प्रभावितपरिवारेभ्यः षण्मासपर्यन्तं निःशुल्कराशनम् अपि उपलब्धं कारयिष्यते।
अस्मिन्नवसरे मुख्यमन्त्री रिडकमार-प्राथमिकस्वास्थ्यकेन्द्रस्य सामुदायिकस्वास्थ्यकेन्द्रत्वेन स्तरोन्नयनस्य घोषणाम् अकरोत्।
सः अवदत् यत् २०२३–२४ वर्षयोः आपदाकाले प्रदेशे त्रयोविंशतिसहस्राधिकानि गृहाणि क्षतिग्रस्तानि अभवन् तथा प्रायः पञ्चशतानि अमूल्यानि जीवनानि नष्टानि। तस्मिन् काले प्रदेशसर्वकारेण पञ्चसप्ततिसहस्राधिकाः जनाः सुरक्षितरूपेण उद्धारिताः, यस्य कार्यस्य प्रशंसा नीत्यायोगेन विश्वबैङ्केन च कृता।
मुख्यमन्त्री पुनरुक्तवान् यत् वर्तमानराज्यसर्वकारेण शिक्षाक्षेत्रे उल्लेखनीयाः सुधाराः कृताः, येषां परिणामस्वरूपं हिमाचलप्रदेशः शिक्षाक्षेत्रे एकविंशतितमस्थानात् पञ्चमस्थानं प्राप्तवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani