Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २६ जुलाईमासः (हि.स.)।भारतीयजनतापक्षस्य नेता तथा पूर्वविधानपरिषद्सदस्यः जयप्रकाश-चतुर्वेदी शनिवासरस्य रात्रौ लखनऊ-नगरस्थिते किङ्गजार्ज-चिकित्सा-विश्वविद्यालये दिवंगतः। गतकेषु कतिपयदिनेषु सः तत्र चिकित्सार्थं प्रविष्टः आसीत्, यत्र तस्य उपचारः प्रचलितः आसीत्।
तस्य निधनात् राष्ट्रीयस्वयंसेवकसंघस्य तथा भारतीयजनतापक्षस्य कार्यकर्तृषु शोकभावः व्याप्तः। सोनभद्रजनपदस्य निवासी जयप्रकाशचतुर्वेदी छात्रजीवन-काले एव राष्ट्रीयस्वयं-सेवकसंघेन सह सम्बद्धः अभवत्। अनन्तरं सः संघस्य प्रचारकः अभवत्। ततः संघेन सः भारतीयजनतापक्षे कार्यार्थं प्रेषितः। पूर्वोत्तरप्रदेशक्षेत्रे सः भारतीयजनतापक्षस्य सङ्घटनमन्त्री इति पदे कार्यम् अकरोत्। भारतीयजनतापक्षस्य प्रतिनिधिरूपेण सः विधानपरिषद्-सदस्योऽपि अभवत्। तस्य निधनावसरे भारतीयजनतापक्षस्य नेतारः शोकम् अव्यक्तयन्।
Hindusthan Samachar / Divya Ranjan