कारगिलस्य वीरेभ्यः द्विचक्रिकायानयात्रया नमनं, फिट इंडियाद्वारा शुभारब्धः कार्यक्रमः
नव दिल्ली, 26 जुलाईमासः (हि.स.)। कारगिलविजयदिवसस्य उपलक्ष्ये फिट् इण्डिया आन्दोलनस्य प्रमुखः अभियानः ‘सण्डे ऑन साइकिल’ इत्यस्य त्र्यशीतितमः (८३) संस्करणः सम्पूर्णे देशे आयोजितः। अस्मिन्नवसरे नागरिकाः, सशस्त्रबलानां सैनिकाः, क्रीडकाः, विद्यार्थिनश
कारगिल के वीरों को साइकिल रैली से नमन, फिट इंडिया ने शुरू किया वालंटियर कार्यक्रम


नव दिल्ली, 26 जुलाईमासः (हि.स.)।

कारगिलविजयदिवसस्य उपलक्ष्ये फिट् इण्डिया आन्दोलनस्य प्रमुखः अभियानः ‘सण्डे ऑन साइकिल’ इत्यस्य त्र्यशीतितमः (८३) संस्करणः सम्पूर्णे देशे आयोजितः। अस्मिन्नवसरे नागरिकाः, सशस्त्रबलानां सैनिकाः, क्रीडकाः, विद्यार्थिनश्च द्विचक्रिकायात्रा सहभागित्वं स्वीकृत्य १९९९ तमे वर्षे सम्पन्ने कारगिलयुद्धे वीरगतिं प्राप्तान् सैनिकान् श्रद्धाञ्जलिम् अर्पितवन्तः। अस्मिन्नेव अवसरे फिट् इण्डिया स्वयंसेवककार्यक्रमस्य अपि शुभारम्भः कृतः।

अयं अभियानः देशस्य प्रमुखनगरेषु तथा भारतीयक्रीडाप्राधिकरणस्य (साई) प्रशिक्षणकेन्द्रेषु लेह-प्रदेशात् कन्याकुमारीपर्यन्तम् आयोजितः। युवा-क्रीडकाः सामान्यनागरिकाश्च सायकिलयानं चालयित्वा भारतीयसशस्त्रबलानां शौर्यं, बलिदानं, राष्ट्रसेवाभावं च प्रति स्वसम्मानम् अभिव्यक्तवन्तः।

नवदिल्ली-नगरे आयोजिते कार्यक्रमे भारतीयस्थलसेनायाः, नौसेनायाः, वायुसैन्यस्य च सेवायुक्ताः सेवामुक्ताश्च अधिकारिणः, विद्यार्थिनः, स्वास्थ्यसाधकाः, बहुसंख्याकाः सामान्यनागरिकाश्च सहभागिनः अभवन्। अस्मिन्नवसरे सहभागिभिः कारगिलयुद्धस्य वीरसैनिकानां योगदानं स्मृतम्।

कार्यक्रमे सहभागी मेजर शुभांशुभारद्वाजः उक्तवान् यत् बहुसंख्याकान् युवानः एकत्र समागतान् दृष्ट्वा, ये राष्ट्रस्य वीरसैनिकान् स्मरन्ति, अत्यन्तं प्रेरणाजनकम् अनुभूयते। तेन उक्तं यत् यदि राष्ट्रस्य उन्नतिः अपेक्ष्यते, तर्हि प्रत्येकः नागरिकः स्वस्थः सुदृढश्च भवितुम् आवश्यकम्।

दिल्लीविश्वविद्यालयस्य मैत्रेयीमहाविद्यालयस्य विद्यार्थिनः अध्यापकाः च महाविद्यालयस्य हीरकजयन्तीसमारोहस्य अन्तर्गतं अस्मिन् अभियाने सहभागित्वम् अकुर्वन्। अनेन आयोजनेन युवाशक्तेः, स्वास्थ्यचेतनायाः, राष्ट्रनिर्माणस्य च परस्परसम्बन्धः प्रतिपादितः।

कार्यक्रमस्य मुख्यातिथिः नीत्यायोगस्य पूर्वमुख्यकार्यकारी अधिकारी अमिताभकान्तः फिट् इण्डिया अभियानस्य प्रशंसां कृत्वा उक्तवान् यत् सामुदायिकसहभागितया स्वस्थजीवनशैल्याः संवर्धनं प्रशंसनीया पहलास्ति। तेन मैत्रेयीमहाविद्यालयस्य क्रीडाक्षेत्रे सहपाठ्यक्रमगतिविधिषु च निष्ठायाः अपि प्रशंसा कृता।

अस्मिन्नवसरे प्रारब्धः फिट् इण्डिया स्वयंसेवककार्यक्रमः विद्यार्थिभिः उत्साहपूर्वकं स्वीकृतः। अनेके छात्राः फिट् इण्डिया पोर्टले स्वनामाङ्कनम् अकुर्वन्। अस्य कार्यक्रमस्य उद्देश्यं युवभ्यः क्रीडा-स्वास्थ्यसम्बद्धकार्यक्रमाणां सञ्चालनस्य व्यावहारिकानुभवं प्रदातुं, तेषां योगदानं च प्रमाणपत्रप्रदानेन सम्मानयितुम् अस्ति।

-----------------------

Hindusthan Samachar / Dheeraj Maithani