Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २६ जुलाईमासः (हि.स.)। उत्तरप्रदेश-सर्वकारेण आधारभूत-शिक्षायां अधिगम-अन्तरं निवारयितुं कैच-अप-शिक्षण-अभियानम् अधिकं प्रभावीकरणस्य निर्णयः कृतः। अस्य अभियानस्य अन्तर्गतं प्रदेशस्य सर्वेषु राजकीय-विद्यालयेषु, बी.आर.सी.-केन्द्रेषु, बी.एस.ए.-कार्यालयेषु तथा डायट-संस्थासु कैच-अप-शिक्षणम्, निपुण-लक्ष्यम्, कक्षा-शिक्षणस्य दश प्रभावी-प्रथाः तथा रीडिंग-कैम्पेन-सम्बद्धा आई.ई.सी.-सामग्री ३१ जुलाईपर्यन्तं प्रदर्शिता भविष्यति।
विद्यालय-शिक्षायाः महानिदेशिका राज्य-परियोजना-निदेशिका च मोनिका-रानी-महोदया अस्मिन् विषये सहायक-शिक्षा-निदेशकान् (बेसिक), डायट-प्राचार्यान्, जनपद-आधारभूत-शिक्षा-अधिकारिणः, खण्ड-शिक्षा-अधिकारिणः, जनपद-समन्वयकान्, एस.आर.जी.-सदस्यान् तथा ए.आर.पी.-सदस्यान् समयबद्ध-क्रियान्वयनार्थम् आदेशान् प्रदत्तवती।
निर्देशेषु उक्तं यत् सम्बद्धाया आई.ई.सी.-सामग्र्याः मुद्रणं कारयित्वा तां विद्यालयेषु, बी.आर.सी.-केन्द्रेषु, बी.एस.ए.-कार्यालयेषु तथा डायट-संस्थासु प्रमुख-स्थानेषु प्रदर्शयेत्, येन शिक्षकाः प्रतिदिनं एतान् शैक्षिक-सन्देशान् कक्षा-शिक्षणे उपयोक्तुं शक्नुयुः। एतेन सम्पूर्णे प्रदेशे दक्षताधारित-शिक्षणस्य समान-कार्यसंस्कृतेः विकासः लक्ष्यीकृतः अस्ति।
कैच-अप-शिक्षणाय पञ्चदश-सूत्रीया रणनीतिः सज्जीकृता
अभियानस्य प्रभावी-सञ्चालनार्थं पञ्चदश-सूत्रीया रणनीतिः निर्मिता। अस्याः अन्तर्गतं अधिगम-स्तरे पृष्ठतः स्थितानां विद्यार्थिनां परिचयः, आधारभूत-दक्षतानाम् आकलनम्, स्तरानुसारं समूह-निर्माणपूर्वकं शिक्षणम्, दैनिक-साप्ताहिक-शिक्षण-योजना, क्रियाकलाप-आधारित-शिक्षणम्, टी.एल.एम.-सामग्र्याः प्रभावी-प्रयोगः, नियमित-अभ्यासः, सतत-मूल्याङ्कनम्, पठन-क्रियाकलापानां प्रोत्साहनम्, अभिभावकानां सहभागिता तथा विद्यार्थिनां प्रगतेः निरन्तर-अनुवीक्षणम् इत्यादिषु विशेषं बलं प्रदत्तम्। उद्देश्यं प्रत्येकं विद्यार्थिनं स्वकक्षानुरूपम् अधिगम-स्तरं प्रापयितुं तथा अधिगमन्यूशतां समयबद्धरीत्या दूरीकर्तुम् अस्ति।
‘निपुण-लक्ष्येन’ अधिगम-मानदण्डाः स्पष्टाः भविष्यन्ति
विद्यालयेषु प्रदर्शनीयेषु निपुण-लक्ष्य-पोस्टरेषु बालवाटिकातः आरभ्य पञ्चम-कक्षापर्यन्तं भाषा, गणितम्, पर्यावरण-अध्ययनम्, आङ्ग्लभाषा च इत्येषां स्पष्टाः अधिगम-लक्ष्याः निर्धारिताः सन्ति। एतेन शिक्षकाणां विद्यार्थिनां च पुरतः प्रत्येक-कक्षायाः अपेक्षित-दक्षताः स्पष्टाः भविष्यन्ति तथा शिक्षणं मूल्याङ्कनं च परिणामाधारितं भविष्यति।
कक्षा-शिक्षणस्य दश प्रभावी-प्रथानां प्रोत्साहनम्
आई.ई.सी.-सामग्र्यां कक्षा-शिक्षणस्य दश प्रभावी-प्रथाः अपि समाविष्टाः सन्ति। तासु विद्यार्थिनां सक्रिय-सहभागिता, क्रियाकलापाधारित-शिक्षणम्, मुक्त-प्रश्नानां प्रयोगः, लेखन-पठन-अभ्यासः, टी.एल.एम.-सामग्र्याः प्रभावी-प्रयोगः, सतत-मूल्याङ्कनम्, नियमित-प्रतिपुष्टिः तथा सहयोगात्मक-अधिगमः इत्यादीनां शिक्षण-पद्धतीनां अनुसरणे विशेषः बलः प्रदत्तः। एतासां प्रथानां उद्देश्यं कक्षा-शिक्षणं अधिकं प्रभावी परिणामोन्मुखं च कर्तुम् अस्ति।
Hindusthan Samachar / Divya Ranjan