भारतं रूस-यूक्रेनयोः संघर्षरत क्षेत्रेषु कार्यरत भारतीय नागरिकेभ्यः परामर्शः
नव दिल्ली, 26 जुलाईमासः (हि.स.)। विदेशमन्त्रालयेन सोमवासरे रूस यूक्रेनयोः संघर्षस्य कारणात् कृष्णसागरस्य तस्य समीपवर्तिनां च सामुद्रिकप्रदेशानां सुरक्षास्थितिः अत्यन्तम् अस्थिरा इति निर्दिश्य परामर्शः प्रकाशितः। मन्त्रालयेन उक्तं यत् संघर्षप्रभाव
प्रतीकात्मक


नव दिल्ली, 26 जुलाईमासः (हि.स.)।

विदेशमन्त्रालयेन सोमवासरे रूस यूक्रेनयोः संघर्षस्य कारणात् कृष्णसागरस्य तस्य समीपवर्तिनां च सामुद्रिकप्रदेशानां सुरक्षास्थितिः अत्यन्तम् अस्थिरा इति निर्दिश्य परामर्शः प्रकाशितः। मन्त्रालयेन उक्तं यत् संघर्षप्रभावितप्रदेशे सञ्चरद्भ्यः वाणिज्यिकपोतभ्यः सम्बद्धे सेवाकर्मणि प्रवृत्तुम् इच्छन्तः भारतीयनागरिकाः वर्तमानसुरक्षाविपदां सावधानीपूर्वकं मूल्याङ्कनं कुर्वन्तु।

विदेशमन्त्रालयस्य अनुसारं ये भारतीयनागरिकाः संघर्षग्रस्तप्रदेशैः गच्छत्सु वाणिज्यिकपोतिषु कार्यं कर्तुम् इच्छन्ति ते प्रथमं वर्तमानसुरक्षासंकटानां सावधानीपूर्वकं मूल्याङ्कनं कुर्वन्तु। नागरिकाः नियोजकेभ्यः भर्तीसंस्थाभ्यः पोतसञ्चालकेभ्यश्च पोतस्य प्रस्तावितमार्गः विश्रामबन्दरगाहाः सुरक्षाव्यवस्था बीमासंरक्षणम् आपत्कालीनप्रतिक्रियाविधयः च विषये सम्पूर्णां संसूचनां प्राप्नुयुः।

एतदतिरिक्तं ते सुनिश्चितं कुर्वन्तु यत् रोजगारस्य शर्ताः प्रचलितान्तरराष्ट्रीयसामुद्रिकमानदण्डानाम् अनुरूपाः स्युः तथा च आपत्कालस्थितौ चिकित्सोपचारः सुरक्षितनिर्गमनम् स्वदेशप्रत्यागमनम् मुआवजस्य पर्याप्तव्यवस्था च उपलब्धा भवेत्। स्वपरिवारस्य सदस्येभ्यः स्वयात्रायोजनाविषये संसूचनां ददतु तथा च तैः सह नियमितसम्पर्कं धारयन्तु।

समुद्रीप्रशासनमहानिदेशालयेन डीजीएमए भारतसर्वकारस्य अन्यैः सम्बद्धाधिकारिभिः च प्रकाशितानां परामर्शानां तथा पोतसञ्चालकैः सक्षमसामुद्रिकाधिकारिभिः प्रकाशितानां सुरक्षानिर्देशानां नियमितरूपेण निरीक्षणं पालनं च कुर्वन्तु। विशेषतया भारतीयनागरिकेभ्यः परामर्शः दीयते यत् ते जुलैमासस्य त्रयोविंशतितमे दिने डीजीएमए पत्तनपोतपरिवहनजलमार्गमन्त्रालयेन च प्रकाशितं नवीनतमं सुरक्षा परामर्शं अवश्यं पश्येयुः।

आवश्यकतायां भारतीयनागरिकाः तस्मिन् क्षेत्रे स्थितेन भारतीयदूतावासेन अथवा भारतीयवाणिज्यदूतावासेन सम्पर्कं कर्तुं शक्नुवन्ति। ते एतेषु आपत्कालीनदूरवाणीसंख्येषु सम्पर्कं कर्तुं शक्नुवन्ति। भारतीयदूतावासः रूसदेशे +७ ९६५२७७३४१४। भारतीयदूतावासः यूक्रेनदेशे +३८ ०९३३५५९९५८।

उल्लेखनीयं यत् अयं परामर्शः तेषां भारतीयनागरिकाणां कृते प्रकाशितः ये कृष्णसागरप्रदेशे सञ्चरद्भिः वाणिज्यिकपोतैः सह कार्यं कुर्वन्ति। कृष्णसागरस्य तस्य समीपवर्तिनां च सामुद्रिकप्रदेशानां मध्ये संघर्षः अद्यापि प्रवर्तमानः अस्ति। तेन एते प्रदेशाः सुरक्षिताः न सन्ति। एतेषु मार्गेषु सञ्चरन्तः वाणिज्यिकपोताः प्रक्षेपास्त्रैः मानवरहितविमानाक्रमणैः अन्यैः आक्रमणैः च पुनः पुनः लक्ष्यीकृताः भवन्ति। एप्रिलमासात् आरभ्य बहवः वाणिज्यिकपोताः एतेषाम् आक्रमणानां शिकाराः अभवन्। अस्मिन् काले पञ्च भारतीयनागरिकाणाम् अपि निधनम् अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani