सीतारमणः कथितवान्, सामान्यजनानां हिताय कार्यं कुर्यात् आयकर अधिकारी
नव दिल्ली/मुंबई, 26 जुलाईमासः (हि.स.)। केन्द्रीयवित्तमन्त्री निर्मलासीतारमण रविवासरे आयकरविभागस्य अधिकारिभ्यः उक्तवती यत् ते सामान्यजनान् कार्यालयानां पुनःपुनः परिभ्रमणाय न विवशयन्तु तथा अनावश्यकविलम्बं विना समये एव संवेदनशीलतया च सेवाः प्रददतु।
'आयकर सिंधु' भवन के उद्घाटन अवसर पर अधिकारियों को संबोधित करते सीतरमण


'आयकर सिंधु' भवन के उद्घाटन अवसर पर अधिकारियों को संबोधित करते सीतरमण


नव दिल्ली/मुंबई, 26 जुलाईमासः (हि.स.)।

केन्द्रीयवित्तमन्त्री निर्मलासीतारमण रविवासरे आयकरविभागस्य अधिकारिभ्यः उक्तवती यत् ते सामान्यजनान् कार्यालयानां पुनःपुनः परिभ्रमणाय न विवशयन्तु तथा अनावश्यकविलम्बं विना समये एव संवेदनशीलतया च सेवाः प्रददतु।

मुंबईनगरस्य नरिमनपॉइण्ट्-प्रदेशे स्थितस्य त्रयोदशतलयुक्तस्य ‘आयकरसिन्धु’ इति नवीनभवनस्य उद्घाटनावसरे आयकरविभागस्य अधिकारिणः सम्बोधयन्ती सा उक्तवती यत् अधिकारिणः जनहिताय कार्यं कुर्वन्तु। वैधानिककार्यसिद्ध्यर्थं जनाः द्वाराद्द्वारं भ्रमितुं न बाध्येरन्। नियममर्यादायाः अन्तर्गतं जनकार्याणां समयबद्धतया संवेदनशीलतया च सम्यक् सम्पादनम् आवश्यकमिति तया प्रतिपादितम्।

सीतारमण अवदत् यत् अस्य भवनस्य निर्माणार्थम् आवश्यकानाम् अनुमतीनां प्राप्तौ स्वयम् आयकरविभागस्य अधिकारिणोऽपि बहूनि क्लेशानि अनुभूतवन्तः। यदि अधिकारिणः स्वयम् एतादृशान् अनुभवितुं शक्नुवन्ति, तर्हि सामान्यनागरिकाणां समस्याः अपि ते अधिकं सम्यग् अवगन्तुं समर्थाः भविष्यन्ति।

वित्तमन्त्री शासकीयविभागानां मन्दकार्यप्रवृत्तेः विषये चिन्तां प्रकटयन्ती उक्तवती यत् एतादृशी शैथिल्ययुक्ता कार्यप्रणाली एव शासकीयभूमिषु अवैधाधिग्रहणस्य अतिक्रमणस्य च कारणं भवति। तया निर्दिष्टं यत् यस्यां भूमौ नूतनं भवनं निर्मितम्, सा भूमिः १९७३ तमवर्षात् आयकरविभागस्य आधीना आसीत्; तथापि तत्र अवैधाधिग्रहणम् अभवत्, यद् प्रशासनिकप्रमादस्य स्पष्टम् उदाहरणम् अस्ति।

स्वसम्बोधने सा मुंबई तथा नवीमुंबई-नगरयोः आयकराधिकारिणां कृते शासकीयनिवासस्थानानां न्यूनतामपि उल्लिखितवती। अस्याः समस्यायाः समाधानार्थम् आवश्यकानि पदानि शीघ्रमेव स्वीकरिष्यामीति सा आश्वासनम् अददात्। अपरञ्च शासकीयविभागानां मध्ये भूमिसम्प्रदानस्य अन्यानां च अनुमतिप्रक्रियाणां शीघ्रीकरणाय अपि सा प्रयतिष्यते, येन भविष्ये कार्यालयभवननिर्माणकार्याणि समये एव सम्पन्नानि भवेयुः।

वित्तमन्त्री बीएसएनएल-संस्थायाः उपलब्धभूमेः उपयोगसम्भावनाः अन्वेष्टुं अधिकारिभ्यः परामर्शम् अददात् तथा अस्मिन् विषये सम्बन्धितमन्त्रिणा सह स्वयम् अपि चर्चां करिष्यामीति उक्तवती।

स्वसम्बोधनस्य समापनसमये निर्मलासीतारमण उक्तवती यत् सत्यनिष्ठा एव करप्रशासनस्य प्रमुखाधारशिला अस्ति। सा सर्वान् अधिकारिणः निष्पक्षतया, पारदर्शितया, सत्यनिष्ठया च स्वकर्तव्यपालनाय प्रेरितवती।

---------------