Enter your Email Address to subscribe to our newsletters

इन्दौरनगरम्, २६ जुलाईमासः (हि.स.)। इन्दौर-आरक्षक-आयुक्तालयेन रविवासरे प्रातःकाले नेहरू-क्रीडाङ्गणात् “मादकद्रव्येभ्यः दूरी आवश्यकी २.०” इत्यस्य अभियानस्य अन्तर्गतं भव्यस्य मादकद्रव्य-मुक्ति-जागरूकता-मैराथन-धावनस्य आयोजनम् अभवत्। अस्य अभियानस्य उद्देश्यं युवानः सामान्यजनांश्च मादकद्रव्य-सेवनस्य दुष्प्रभावेषु जागरूकान् कृत्वा मादकद्रव्य-मुक्त-समाजस्य निर्माणार्थं जनसहभागितां वर्धयितुम् आसीत्।
मैराथन-धावनं प्रति नगरवासिषु विशेषः उत्साहः दृष्टः। भारतीय-क्रिकेट-क्रीडकस्य रजत-पाटीदारस्य उपस्थित्या आयोजनम् अधिकम् आकर्षकम् अभवत्। बहुसंख्यया युवानः, विद्यार्थिनः, सामाजिक-सङ्घटनानां सदस्याः, नागरिकाश्च मैराथन-धावने सहभागिनः अभवन् तथा मादकद्रव्य-सेवनस्य विरुद्धम् ऐक्यस्य सन्देशम् अददुः। सहभागिभिः जागरूकता-सन्देशयुक्तानि फलकानि हस्तेषु धृतानि, घोषवाक्यानि उच्चारयद्भिश्च जनाः मादकद्रव्येभ्यः दूरं स्थातुम् आहूताः। सम्पूर्णे आयोजने “मादकद्रव्य-मुक्तम् इन्दौरम्, मादकद्रव्य-मुक्तं भारतम्” इति सन्देशः प्रतिध्वनितः।
अस्मिन् अवसरे क्रिकेट-क्रीडकः रजत-पाटीदारः युवानः प्रेरयन् अवदत्— “यदि जीवने स्वप्नानि साकारयितुं सफलतां च प्राप्तुम् इच्छथ, तर्हि मादकद्रव्येभ्यः दूरं भवितुम् अत्यावश्यकम्। मादकद्रव्य-सेवनं स्वास्थ्यं, भविष्यं, स्वप्नानि च विनाशयति, यदा तु परिश्रमः, अनुशासनम्, स्वस्थ-जीवनशैली च सफलतायाः वास्तविकं लक्षणम् अस्ति।” सः युवभ्यः क्रीडायाम्, शिक्षायाम्, सकारात्मक-क्रियाकलापेषु च संलग्नाः भूत्वा स्वलक्ष्याणि साधयितुम् आह्वानम् अकरोत्।
इन्दौर-आरक्षक-अधिकारिणः अवदन् यत् “मादकद्रव्येभ्यः दूरी आवश्यकी” इत्यस्य अभियानस्य अन्तर्गतं नगरस्य सर्वेषु भागेषु निरन्तरं जागरूकता-कार्यक्रमाः आयोज्यन्ते। तेषां मते मादकद्रव्य-सेवनस्य विरुद्धः संघर्षः तदैव सफलः भविष्यति, यदा समाजस्य प्रत्येकं वर्गः सक्रियतया अस्मिन् सहभागितां करिष्यति। मैराथन-धावनस्य समापने सर्वे सहभागिनः मादकद्रव्य-मुक्तम् इन्दौरम्, मादकद्रव्य-मुक्तं भारतम् इति निर्माणस्य संकल्पं पुनः स्वीकृतवन्तः तथा समाजस्य सर्वान् जनान् मादकद्रव्य-सेवनस्य विरुद्धम् एकत्रिताः भूत्वा अभियानम् जनान्दोलनरूपेण विकसितुं आहूतवन्तः।
Hindusthan Samachar / Divya Ranjan