Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 26 जुलाईमासः (हि.स.)।
बस्तरजनपदस्य कुम्हरावण्डस्थिते शहीदगुण्डाधुरकृषिमहाविद्यालये अनुसन्धानकेन्द्रे रविवासरे राष्ट्रीयकैडेटकोरस्य राष्ट्रियसेवायोजनायाश्च संयुक्ततत्त्वावधानेन कारगिलविजयदिवसः पूर्णश्रद्धया, उत्साहेन देशभक्तिभावेन च समाचरितः।
अस्य विशेषकार्यक्रमस्य आयोजनम् अधिष्ठातुः डॉ. आर. एस. नेतामस्य तथा कमाण्डिङ्गधिकारिणः कर्नल् अरुणकाण्डपालस्य निर्देशनानुसारं डॉ. आर. आर. कंवर, डॉ. सोनालीकर (राष्ट्रीयसेवायोजनायाः कार्यक्रमाधिकारिणी) तथा एम्. बी. तिवारी इत्येषां मार्गदर्शने सम्पन्नम्।
कार्यक्रमस्य प्रारम्भे छात्रैः प्रदीपाः प्रज्वाल्य पुष्पाणि समर्प्य च अमरवीरशहीदेभ्यः श्रद्धाञ्जलिः समर्पिता। राष्ट्रियकैडेटकोरस्य कैडेटैः अपि सलामी प्रदाय देशस्य वीरसैनिकेभ्यः भावपूर्णा श्रद्धाञ्जलिः अर्पिता। ततः १९९९ तमे वर्षे सम्पन्नस्य कारगिलयुद्धस्य ‘ऑपरेशन विजय’ इत्यस्य च प्रसङ्गे भारतीयसेनायाः अदम्यसाहसं पराक्रमं संघर्षं च प्रदर्शयन्ती विशेषदृश्यचित्रावली प्रदर्शिता।
दृश्यचित्रावल्यानन्तरं राष्ट्रियसेवायोजनायाः राष्ट्रियकैडेटकोरस्य च छात्राणां कृते ओजस्विनी भाषणस्पर्धा आयोजिता। अस्यां स्पर्धायां छात्राः छात्र्यश्च उत्साहपूर्वकं सहभागित्वं स्वीकृत्य स्वदेशभक्तिपूर्णान् विचारान् प्रस्तुतवन्तः।
स्पर्धायाः निर्णायकमण्डले डॉ. पी. एस. नेताम, डॉ. सुरेशसाहू, डॉ. शङ्करलालवर्मा तथा डॉ. गुञ्जाठाकुरः आसन्। अस्यां स्पर्धायां कु. आद्याशापाती प्रथमस्थानम्, पारसप्रकाशः द्वितीयस्थानम्, सुषमापाण्डेया तृतीयस्थानं च प्राप्तवन्तः।
कार्यक्रमस्य मुख्यातिथिः डॉ. ए. के. ठाकुरः (सहसञ्चालकः, अनुसन्धानविभागः) तथा अध्यक्षः डॉ. एन्. सी. मण्डावी (प्रधानवैज्ञानिकः) आस्ताम्। अस्मिन्नवसरे डॉ. मण्डावी कारगिलयुद्धसम्बद्धान् स्वसंस्मरणान् छात्रैः सह साझा कृतवान्। हवलदारः सेठियानून्दा अपि सैनिकानुशासनस्य, सीमासुरक्षायाः, वीराणां बलिदानस्य च प्रेरणाप्रदाः कथाः श्रावयित्वा छात्रेषु देशभक्तेः भावं जागरितवान्।
अस्मिन्नायोजने डॉ. चेतनाखाण्डेकरः तथा रिचाधुरन्धरा अपि विशेषां सक्रियां च भूमिकाम् अवहताम्। मञ्चसञ्चालनस्य दायित्वं कु. आद्याशापाती तथा वैशालीवर्मा सम्यग्रूपेण निर्वहितवत्यौ। अन्ते भाषणस्पर्धायाः विजेतारः सम्मानिताः। ततः राष्ट्रियकैडेटकोरस्य कैडेटः दीपराजसाहू धन्यवादज्ञापनम् अकरोत्। सामूहिकराष्ट्रगानेन कार्यक्रमस्य गरिमामयः समापनः अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani