साहित्यकाराः शब्दैः वीराणां शौर्यम् अनमन्, कारगिल विजय दिवसे साहित्यिक संध्या आयोजिता
नव दिल्ली, 26 जुलाईमासः (हि.स.)। कार्गिलविजयदिवसस्य अवसरे इन्द्रप्रस्थसाहित्यभारत्याः पश्चिमनैऋत्यकेन्द्राभ्यां रविवासरे द्वारकास्थिते दीनदयालोपाध्यायमहाविद्यालये साहित्यसन्ध्यायाः आयोजनम् अभवत्। अस्मिन् कार्यक्रमे कविता, कथा तथा पुस्तकसारप्रस्तु
इंद्रप्रस्थ साहित्य भारती के पश्चिमी एवं नैऋत्य केंद्र ने की साहित्यिक संध्या का आयोजन।


नव दिल्ली, 26 जुलाईमासः (हि.स.)।

कार्गिलविजयदिवसस्य अवसरे इन्द्रप्रस्थसाहित्यभारत्याः पश्चिमनैऋत्यकेन्द्राभ्यां रविवासरे द्वारकास्थिते दीनदयालोपाध्यायमहाविद्यालये साहित्यसन्ध्यायाः आयोजनम् अभवत्। अस्मिन् कार्यक्रमे कविता, कथा तथा पुस्तकसारप्रस्तुतीनां माध्यमेन कार्गिलयुद्धस्य अमरवीरशहीदेभ्यः श्रद्धाञ्जलिः समर्पिता। अस्मिन्नवसरे वीरसैनिकानां परिवारजनानामपि सम्मानः कृतः।

कार्यक्रमस्य प्रारम्भे संयोजिका प्रा. पूनम राठी स्वागतभाषणे उक्तवती यत् कार्गिलविजयदिवसः भारतीयसैनिकानाम् अदम्यसाहसस्य, राष्ट्रनिष्ठायाः तथा सर्वोच्चबलिदानस्य प्रतीकः अस्ति। तया उक्तं यत् सैनिकाः यथा राष्ट्रस्य सीमाः रक्षन्ति तथा साहित्यकाराः समाजे राष्ट्रियचेतनायाः सांस्कृतिकमूल्यानां च संवर्धनं कुर्वन्ति।

मुख्यवक्ता द्वारकाउत्तरीनगरसंघचालकः प्रदीप देसवाल युवभ्यः राष्ट्रहितं, सेवा तथा त्यागं जीवनस्य लक्ष्यत्वेन स्वीकर्तुम् आह्वानम् अकरोत्। साहित्यकारा वन्दना यादव वीरसैनिकानां तेषां परिवाराणां च प्रति समाजस्य संवेदनशीलतां आवश्यकाम् अवदत्।

कार्यक्रमस्य अध्यक्षः डॉ. विनोद बब्बर अवदत् यत् सैनिकाः साहित्यकाराश्च उभावपि राष्ट्रनिर्माणस्य महत्त्वपूर्णौ स्तम्भौ स्तः। एकः राष्ट्रस्य सीमाः रक्षति, अपरः संस्कृतेः, भाषायाः, साहित्यस्य च संरक्षणस्य दायित्वं वहति।

साहित्यिकसत्रे कार्गिलयुद्धाधारितानां पुस्तकानां सारः प्रस्तुतः तथा वीरसैनिकानां जीवनाधारितानां कथानां वाचनमपि अभवत्। अंशिका ‘कार्गिल : एक यात्री की जुबानी’, प्रवीणः रचना बिष्ट रावतविरचितां ‘कार्गिल’, नैन्सी शर्मा ‘टाइगर हिल का हीरो’, दीक्षा गहलोत ‘कार्गिल गर्ल’, शिवरतकुमारी च परमवीरचक्रविजेतुः कैप्टन मनोज कुमार पाण्डेयस्य जीवनाधारितां कथां प्रस्तुतवती।

काव्यपाठे समायरा राय, आदित्य भट्ट, के.के. शर्मा, डॉ. मञ्जू शुक्ला, गुंजन बिष्ट, पवन कुमार, एम.एस. सान्या राव, शोभा शर्मा, सरिता, रिया भारद्वाज, सङ्गीता पीयूष इत्यादयः कवयः स्वस्वरचनाभिः शहीदानां शौर्यं, त्यागं, राष्ट्रप्रेम च भावपूर्णतया अभिव्यक्तवन्तः। कार्यक्रमे देशभक्त्या ओतप्रोतं वातावरणम् आसीत्।

आयोजने विद्यालयमहाविद्यालययोः विद्यार्थिनां उल्लेखनीया सहभागिता अभवत्। विद्यार्थिनः साहित्यिकप्रस्तुतीनां माध्यमेन राष्ट्रनायकानां प्रति सम्मानस्य राष्ट्रियचेतनायाश्च सन्देशम् अददुः।

अस्मिन्नवसरे आमन्त्रितानां वीरसैनिकपत्नीभ्यः पुस्तकानि प्रदाय सम्मानः कृतः तथा सहभागिभ्यः सहभागिताप्रमाणपत्राणि प्रदत्तानि।

---------------

Hindusthan Samachar / Dheeraj Maithani