Enter your Email Address to subscribe to our newsletters

नवदेहली, २६ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी ‘मनसः वाणी’ कार्यक्रमे विज्ञाने, नवोन्मेषे, क्रीडाक्षेत्रे तथा राष्ट्रीय-सुरक्षायां भारतस्य उपलब्धीनाम् उल्लेखम् अकरोत् तथा कारगिल-विजय-दिवसस्य अवसरे वीरसैनिकानां शौर्यं बलिदानं च प्रणम्य तान् प्रति श्रद्धां प्रकटितवान्।
‘मनसः वाणी’ कार्यक्रमस्य १३६तमे प्रकरणे प्रधानमन्त्री विक्रम-१ इत्यस्य सफल-प्रक्षेपणस्य तथा अन्ताराष्ट्रिय-विज्ञान-ओलम्पियाड्-प्रतियोगितासु भारतीय-विद्यार्थिनां उत्कृष्ट-प्रदर्शनस्य प्रशंसाम् अकरोत्। क्रीडाक्षेत्रे भारतीय-क्रीडकाणाम् उपलब्धीः राष्ट्रस्य प्रेरणास्रोतांसि इति वर्णितवान्। सः केरल-राज्ये संस्कृत-शिक्षां पादकन्दुक-क्रीडया सह सम्बद्धम् अद्वितीयं प्रयत्नम् अपि उल्लेखितवान्।
प्रधानमन्त्री अवदत् यत् भारतदेश: रक्षाक्षेत्रे आत्मनिर्भरं भवन् वैश्विक-रक्षा-सहभागीराष्ट्रत्वेन उदेति। तेन सह ‘कैच-द-रेन’ अभियाने वर्धमानायाः जन-सहभागितायाः अपि प्रशंसा कृता।
प्रधानमन्त्री अवदत् यत् उत्तरप्रदेशस्य एकस्य स्वसहायता-समूहस्य महिलाभिः निर्मितम् औषधीय-चायम् आत्म-निर्भरतायाः प्रतीकं भवति। सः देशव्यापी-प्रकृति-संरक्षणाय जैव-विविधतायाः रक्षणाय च जनानां सामूहिक-सहभागितां प्रेरणादायक-प्रयत्नांश्च प्रशशंस।
Hindusthan Samachar / Divya Ranjan