(लीड) ‘मन की बात’ इत्येतन्मध्ये प्रधानमंत्री अवदत् ‘मह्यं देशस्य युवशक्त्यां बहु गर्वः’ 
नव दिल्ली, 26 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे स्वस्य मासिके आकाशवाणीकार्यक्रमे मन की बात इत्यस्य १३६ तमस्य प्रसारणस्य अवसरे उक्तवान् यत् भारते ओलम्पियाड तथा हैकेथान इत्येषां संस्कृतिः निरन्तरं वर्धमाना दृश्यते इति दृष्ट्वा
मन की बात


नव दिल्ली, 26 जुलाईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी रविवासरे स्वस्य मासिके आकाशवाणीकार्यक्रमे मन की बात इत्यस्य १३६ तमस्य प्रसारणस्य अवसरे उक्तवान् यत् भारते ओलम्पियाड तथा हैकेथान इत्येषां संस्कृतिः निरन्तरं वर्धमाना दृश्यते इति दृष्ट्वा तस्मै अत्यन्तं हर्षः भवति। तेन विश्वासः व्यक्तीकृतः यत् अधिकाधिकाः भारतीययुवानः एतेषु मञ्चेषु स्वीयां रुचिं प्रदर्शयिष्यन्ति तथा भारतस्य यशः विश्वे प्रसारयिष्यन्ति।

प्रधानमन्त्री उक्तवान् यत् अन्तरिक्षक्षेत्रं यदा निजीसंस्थानानां कृते उद्घाटितम् अभवत् तदा तस्य सकारात्मकः परिणामः अद्य समग्रविश्वेन दृश्यते। निजीक्षेत्रेण विकसितस्य भारतस्य प्रथमस्य विक्रम १ इति नाम्नः राकेटस्य सफलप्रक्षेपणेन राष्ट्रं गौरवान्वितम् अभवत्। एतत् भारतीययुवानां प्रतिभायाः नवोन्मेषस्य कौशलस्य धैर्यस्य च उत्कृष्टम् उदाहरणम् इति तेन निरूपितम्। तेन अन्ताराष्ट्रियविज्ञानोलम्पियाडस्पर्धासु भारतीयविद्यार्थिनां उत्कृष्टप्रदर्शनस्य अपि प्रशंसा कृता। भौतिकशास्त्र तथा रसायनशास्त्र ओलम्पियाडस्पर्धयोः सर्वे भारतीयविद्यार्थिनः स्वर्णपदकानि प्राप्तवन्तः। जीवविज्ञान ओलम्पियाडस्पर्धायामपि सर्वे प्रतिभागिनः पदकानि प्राप्तवन्तः तथा राष्ट्रस्य गौरवं वर्धितवन्तः।

प्रधानमन्त्री डॉ. एपीजे अब्दुलकलामस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पयन् अवदत् यत् सः जीवनपर्यन्तं युवानः महान् स्वप्नानि द्रष्टुं प्रेरितवान्। आगामिन्यां गुरुपूर्णिमायां मातापितृभ्यः, आचार्येभ्यः, समस्तगुरुभ्यश्च कृतज्ञतां प्रदर्शयितुम् अपि तेन देशवासिनः आहूताः।

कार्गिलविजयदिवसस्य प्रसङ्गे प्रधानमन्त्री वीरशहीदान् वीरसैनिकांश्च श्रद्धया नत्वा अवदत् यत् अयं दिवसः अस्मान् वीरजवानानाम् अद्भुतसाहसं स्मारयति। भारतः अद्य स्ववीराणां स्मरणं करोति तथा तेषां विजयगाथां नूतनपीढ्यै अपि प्रापयति। अस्य प्रसङ्गे तेन शौर्यविजययात्रायाः उल्लेखः कृतः। सा मोटरसायकलयात्रा १४ जुलै दिनाङ्के देहल्याः राष्ट्रियसमरसमारकात् आरब्धा द्रासस्थं कार्गिलयुद्धस्मारकं प्रति गच्छति।

प्रधानमन्त्री उक्तवान् यत् भारतः स्वसैनिकानां साहसं सुदृढं कुर्वन् स्वीयां प्रौद्योगिकीक्षमतामपि निरन्तरं वर्धयति। रक्षाउत्पादनम्, रक्षानिर्यातः, मित्रराष्ट्रैः सह राजनैतिकसहयोगश्च नूतनाः उन्नतिशिखराः प्राप्नुवन्ति। भारतीयनौसेनायाम् आईएनएस महेन्द्रगिरि इति युद्धनौकायाः समावेशः तथा डीआरडीओ संस्थया पिनाका दीर्घमार्गनिर्देशितराकेटस्य सफलपरीक्षणम् आत्मनिर्भरभारतस्य वर्धमानशक्तेः प्रतीकमिति तेन उक्तम्।

प्रधानमन्त्री जनान् जलस्य प्रत्येकबिन्दोः संरक्षणाय प्रेरयन् अवदत् यत् सर्वे स्वसमीपे कस्यचित् तडागस्य कूपस्य वाप्याः वा संरक्षणस्य उत्तरदायित्वं स्वीकुर्युः। अस्य समर्थनार्थं तेन कतिपयानि प्रेरणादायकानि उदाहरणानि अपि प्रदत्तानि।

क्रीडाजगतः उपलब्धीनां विषये प्रधानमन्त्री राष्ट्रमण्डलक्रीडासु भागं गृह्णद्भ्यः भारतीयक्रीडकभ्यः शुभकामनाः अददात्। पी.वी. सिन्धु जापान ओपन स्पर्धायाः विजेत्री जाता इति कारणेन तस्यै अभिनन्दनम् अकरोत्। तथैव लार्ड्स क्रीडाङ्गणे भारतीयमहिलाक्रिकेटदलस्य प्रथमपरीक्षाक्रीडाविजयं ऐतिहासिकम् इति वर्णयन् एतत् देशस्य नारीशक्तेः महती उपलब्धिरिति अवदत्।

एतस्मिन्नेव प्रसङ्गे तेन केरलराज्यस्य एर्णाकुलमजनपदस्य दक्षिणचित्तूरस्थितस्य विद्यालयस्य संस्कृतमण्डलस्य उल्लेखः कृतः। तत्र अभिलाषनामकः आचार्यः अभिनवेन उपायेन संस्कृतभाषां लोकप्रियां करोति। अक्षरकन्दुक इति उपक्रमे संस्कृतवर्णान् कन्दुकक्रीडायाः पदैः सह सम्बध्य सरलतया आनन्देन च शिक्षयति इति प्रधानमन्त्री अवदत्।

प्रधानमन्त्री काश्मीरप्रदेशस्य परम्परागतायाः वगू इति चट्याः उल्लेखं कृत्वा स्थानीयशिल्पिनां प्रयत्नानां प्रशंसाम् अकरोत्। सरकण्डतृणेन धान्यतुषैश्च हस्तनिर्मिता एषा पर्यावरणानुकूला चटिका ग्रीष्मे शैत्यं शिशिरे च उष्णतां ददाति। श्रीनगरस्य गुलामहुसैन तथा तस्य पुत्री तञ्जीला एतस्याः लुप्यमानायाः कलायाः पुनर्जीवनाय सङ्कल्पं कृतवन्तौ येन अनेके जनाः ताभ्यां सह सम्बद्धाः अभवन्। सरकारीयसहयोगेन स्थानीयप्रयत्नैश्च वगू सम्प्रति देशव्यापिनी लोकप्रियता प्राप्तवती तथा वोकल फोर लोकल अभियानम् अपि सुदृढीकृतम् इति तेन उक्तम्।

कार्यक्रमे प्रधानमन्त्री उत्तरप्रदेशस्य बिजनौरजनपदस्य स्वयंसहायतासमूहस्य महिलाभिः निर्मितायाः विदुरप्रेरणा स्वदेशी हर्बल टी इत्यस्य प्रशंसाम् अकरोत्। एषा औषधीयचाया महिलानाम् आत्मनिर्भरतायाः प्रतीकं वर्तते तथा स्वस्वादगुणाभ्यां देशविदेशयोः प्रसिद्धिं प्राप्तवती। अयं प्रयासः केवलं एकलक्षरूप्यकैः आरब्धः आसीत्, अद्य तु अयं प्रमुखसंस्थासु अपि प्राप्यते। प्रधानमन्त्री उक्तवान् यत् मम चायया सह सम्बन्धः सर्वैः ज्ञायते, किन्तु एषा चाया केवलं स्वादं न दत्तवती, अपि तु अनेकाशां भगिनीनां जीवने आत्मनिर्भरतायाः नूतनां सुगन्धमपि प्रसारितवती।

प्रधानमन्त्री अवदत् यत् प्लास्टिकप्रदूषणं सम्पूर्णविश्वस्य प्रमुखसमस्या अस्ति तथा तस्य समाधानाय पुनर्चक्रणम् अत्यावश्यकम्। बिहारराज्यस्य सीतामढीजनपदस्य उदाहरणं दत्त्वा तेन उक्तं यत् तत्र एकवारप्रयुक्तप्लास्टिकेन दृढाः पर्यावरणानुकूलाः उपवेशनपीठिकाः निर्मीयन्ते। एकस्याः पीठिकायाः निर्माणाय प्रायः चत्वारिंशत् किलोग्रामपरिमितं प्लास्टिकम् उपयुज्यते। एषः प्रयासः पर्यावरणसंरक्षणस्य, रोजगारसृजनस्य, जनजागरूकतायाश्च माध्यमं भवति तथा रिड्यूस, रीयूज, रिसायकल इति भावनां सुदृढयति।

प्रधानमन्त्री पुनरपि जनान् प्रार्थितवान् यत् आगामिनि गणेशोत्सवे पीओपी अथवा विदेशनिर्मितप्रतिमानां स्थाने भारतीयमृत्तिकया निर्मितस्य गणेशप्रतिमायाः स्थापना क्रियताम् तथा पर्यावरणसंरक्षणे योगदानं दीयताम्।

प्रधानमन्त्री मणिपुरप्रदेशस्य खगोलभौतिकविज्ञानिनः डॉ. रोनाल्डो लैशरामस्य उपलब्धेः उल्लेखम् अकरोत्। जापानदेशे कार्यरतः सः वैज्ञानिकदलस्य सदस्यः अस्ति येन युवआकाशगङ्गानां विशालसमूहः आविष्कृतः। तस्य समूहस्य नाम मणिपुरस्य प्रसिद्धायाः लोकटकसरोवरस्य नाम्ना लोकटक प्रोटोक्लस्टर इति स्थापितम्।

प्रधानमन्त्री त्रिपुराराज्यस्य परम्परागतवाद्यस्य चौंगप्रेंग इत्यस्य उल्लेखं कृत्वा सूरजकुमारदेबबर्मा इत्यस्य प्रयत्नानां प्रशंसाम् अकरोत्। सः एतत् वाद्यं तथा अन्यानि परम्परागतसङ्गीतरूपाणि नवपीढ्यै परिचाययति। प्रधानमन्त्री जनान् स्वस्वप्रदेशस्य परम्परागतवाद्यानां विषये सामाजिकमाध्यमेषु सूचनाः प्रसारयितुम् आहूतवान्, येन भारतस्य समृद्धसङ्गीतपरम्परायाः नूतना प्रतिष्ठा भविष्यति।

प्रधानमन्त्री उक्तवान् यत् ७ अगस्त दिनाङ्के राष्ट्रियहस्तकरघादिवसः आचरिष्यते। तेन तन्तुवायानां कौशलस्य तथा भारतीयसांस्कृतिकविरासत्संरक्षणे तेषां योगदानस्य प्रशंसा कृता। जनान् हस्तकरघनिर्मितवस्तूनि हस्तशिल्पनिर्मितवस्तूनि च क्रीत्वा वोकल फोर लोकल अभियानं सुदृढीकर्तुम् अपि तेन प्रेरितम्। पोचमपल्ली, कच्छ, पटना, केरलम् इत्यादिषु प्रदेशेषु हस्तकरघपरम्परा नूतनां प्रतिष्ठां प्राप्नोति, येन विशेषतः महिलाभ्यः रोजगारावसराः लभ्यन्ते इति तेन उक्तम्।

प्रधानमन्त्री अवदत् यत् एकः वृक्षः मातुः नाम्ना इति अभियाने जनभागीदाऱ्या कोटिशः वृक्षाः रोपिताः तथा पर्यावरणसंरक्षणाय नूतना गतिः प्राप्ता। अहमदाबादस्य भाडजप्रदेशे एकस्मिन् घण्टायां त्रिलक्षपञ्चाशत्सहस्राधिकाः वृक्षाः रोप्य गिनीज विश्वकीर्तिमानः स्थापितः। उत्तरप्रदेशे १२ जुलै दिनाङ्के एकस्मिन्नेव दिवसे पञ्चत्रिंशत्कोट्यधिकाः वृक्षाः रोपिताः, येन जनभागीदाऱ्याः अद्वितीयम् उदाहरणं प्रस्तुतम्।

प्रधानमन्त्री अवदत् यत् वृक्षाः केवलं मानवस्य हिताय न, अपि तु असंख्यजीवानां निवासस्थानानि अपि सन्ति। गुजरातस्य गिरवनप्रदेशे प्रायः षष्टिवर्षानन्तरम् इण्डियन ग्रे हॉर्नबिल पक्षिणः पुनरागमनं संरक्षणप्रयत्नानां महान् सफलतासूचकम् अस्ति। अयं पक्षी वनस्य कृषकः इति कथ्यते, यतः सः बीजानि दूरदूरं प्रसारयति तथा नूतनवृक्षाणां संवर्धने साहाय्यं करोति। प्रधानमन्त्री विशेषावसरेषु प्रकृतिसंरक्षणं सम्बद्धीकर्तुं तथा एकः वृक्षः मातुः नाम्ना इति अभियाने वृक्षारोपणं कर्तुम् आह्वानम् अकरोत्।

प्रधानमन्त्री अवदत् यत् गतद्वादशवर्षेषु खादीवस्त्रविक्रयः षड्गुणः वर्धित्वा प्रायः अष्टसहस्रकोटिरूप्यकाणि प्राप्तवान्। आगामिषु उत्सवेषु खादी, हस्तकरघनिर्मितवस्तूनि, हस्तशिल्पनिर्मितवस्तूनि च क्रीत्वा स्थानीयशिल्पिनः तन्तुवायांश्च प्रोत्साहयितुम् अपि तेन जनाः प्रेरिताः।

अन्ते प्रधानमन्त्री अवदत् यत् १५ अगस्त दिवसः राष्ट्रस्य वीरस्वातन्त्र्यसैनिकानां त्यागबलिदानयोः स्मरणस्य दिवसः अस्ति। हर घर तिरंगा इति अभियानं सम्पूर्णदेशं राष्ट्रियैक्यभावनया संयोजितवान्। अस्मिन् वर्षे अपि प्रत्येकः नागरिकः स्वगृहे पूर्णसम्मानेन राष्ट्रियध्वजम् आरोहयतु, अभियाने उत्साहेन भागं गृह्णातु, स्वतन्त्रतादिवससम्बद्धाः स्वीयाः सूचनाः च मायगॉव माध्यमेन प्रेषयतु इति प्रधानमन्त्री आह्वानम् अकरोत्।

---------------

Hindusthan Samachar / Dheeraj Maithani