Enter your Email Address to subscribe to our newsletters

रायपुरम्, 26 जुलाईमासः (हि.स.)।
वित्तमन्त्री ओपी चौधरी कारगिलविजयदिवसस्य गौरवमय्याः वर्षगाठायाः अवसरे भारतीयसशस्त्रबलानाम् अदम्यसाहसस्य अद्वितीयशौर्यस्य दृढसङ्कल्पस्य च प्रति कोटिशः प्रणामं समर्प्य कारगिलयुद्धस्य अमरवीरेभ्यः भावपूर्णां श्रद्धाञ्जलिं समर्पितवान्।
वित्तमन्त्री चौधरी अवदत् यत् कारगिलविजयदिवसः भारतीयसेनायाः पराक्रमस्य वीरतायाः राष्ट्रस्य प्रति सर्वोच्चसमर्पणस्य च प्रतीकः अस्ति। प्रतिकूलपरिस्थितिष्वपि अस्माकं वीरसैनिकाः अद्वितीयसाहसस्य परिचयं प्रदर्श्य मातृभूमेः रक्षणार्थं स्वसर्वस्वं समर्पितवन्तः। तेन उक्तं यत् कारगिलस्य वीरसैनिकानां त्यागः बलिदानं शौर्यं च प्रत्येकस्य भारतीयस्य कृते प्रेरणास्रोतः अस्ति। तेषाम् अदम्यसाहसस्य कारणात् राष्ट्रस्य सीमाः सुरक्षिताः सन्ति तथा भारतस्य गौरवम् अक्षुण्णम् अस्ति।
वित्तमन्त्री ओपी चौधरी अवदत् यत् कारगिलस्य अमरहुतात्नां बलिदानं राष्ट्रवासिनां हृदयेषु सदैव अमिटं भविष्यति। तेन देशवासिनः वीरसैनिकानां त्यागात् राष्ट्रसेवाभावनायाश्च प्रेरणां स्वीकृत्य राष्ट्रस्य एकतायाः अखण्डतायाः सुरक्षायाश्च प्रति सदैव समर्पिताः भवितुम् आहूताः।
---------------
Hindusthan Samachar / Dheeraj Maithani