मुख्यमन्त्री डॉ. यादवः अद्य निवाड़ीजनपदाय विकासकार्याणाम् उपहारं दास्यति
भोपालनगरम्, २६ जुलाईमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य रविवासरे निवाड़ीजनपदस्य प्रवासे भविष्यति। अस्मिन् प्रवासे सः निवाड़ी-जनपदवासिभ्यः १९३ कोटि-रूप्यकाणां व्ययेन सम्पन्नानां विकास-कार्याणाम् उपहारं प्रदास्यति। जनपदप्रशासन
सीएम मोहन यादव


भोपालनगरम्, २६ जुलाईमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य रविवासरे निवाड़ीजनपदस्य प्रवासे भविष्यति। अस्मिन् प्रवासे सः निवाड़ी-जनपदवासिभ्यः १९३ कोटि-रूप्यकाणां व्ययेन सम्पन्नानां विकास-कार्याणाम् उपहारं प्रदास्यति।

जनपदप्रशासनेन प्रदत्तानुसारं मुख्यमन्त्री डॉ. यादवः निवाड़ीजनपदे संयुक्त-कार्यालय-समाहर्तृभवनस्य लोकार्पणं करिष्यति। तेन सह अधोसंरचना-स्वास्थ्य-शिक्षा-कौशलविकास-ग्रामीणविकास-सम्बद्धानां विविधमहत्त्वपूर्णपरियोजनानां १९३ कोटिरूप्यकाणां व्ययेन निर्मीय-माणानां समग्रतः ५९ विकासकार्याणां भूमिपूजनं लोकार्पणं च करिष्यति।

मुख्यमन्त्री डॉ. यादवः निवाडीस्थाने ४६ राजस्वकर्मचारिणाम् आवासानां तथा पृथ्वीपुरे २९ राजस्वकर्मचारिणाम् आवासानां लोकार्पणं करिष्यति। सः निवाड़ी-जनपदचिकित्सालयस्य १००-शय्यायुक्तभवनस्य उन्नयनस्य, पृथ्वीपुरखण्डस्य जेवरा-ग्रामे नवीन-प्राथमिकस्वास्थ्यकेन्द्रभवनस्य, पृथ्वीपुरखण्डे नवीनप्राथमिक-स्वास्थ्य-भवनस्य, निवाड़ीखण्डस्य सेन्दरीग्रामे नवीनप्राथमिक-स्वास्थ्य-केन्द्रभवनस्य तथा संजीवनी चिकित्सालयस्य लोकार्पणमपि करिष्यति।

मुख्यमन्त्री डॉ. यादवः लोकनिर्माण-विभागस्य, नगरीयप्रशासनविभागस्य, पञ्चायत-ग्रामीणविकासविभागस्य, आयुषविभागस्य, महिला-बालविकास-विभागस्य तथा शिक्षाविभागस्य विविधविकास-कार्याणामपि लोकार्पणं करिष्यति।

भूमिपूजनम्

मुख्यमन्त्री डॉ. यादवः लोकनिर्माण-विभागस्य, पञ्चायत-ग्रामीणविकास-विभागस्य, आयुषविभागस्य, उच्चशिक्षा-विभागस्य, कौशलविकासविभागस्य, विद्यालयशिक्षाविभागस्य तथा महिला-बालविकासविभागस्य अन्तर्गतविकास-कार्याणां भूमिपूजनमपि करिष्यति।

Hindusthan Samachar / Divya Ranjan