मध्यप्रदेशे कुबेरेश्वरधाम्नि भक्तेः महासागरः, चतुर्लक्षाधिकाः श्रद्धालवः शिवमहापुराणश्रवणं कृतवन्तः
सीहोरनगरम्, २६ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य सीहोरजनपदस्य समीपे स्थिते कुबेरेश्वरधाम्नि आयोजितस्य गुरुपूर्णिमा-महोत्सवस्य अन्तर्गतं शिवमहापुराणकथायाः अवसरे रविवासरे अभूतपूर्वया भक्त्या परिपूर्णः अभवत्। देशस्य विभिन्नराज्येभ्यः आगताः चतुर्लक्षाधि
कुबेरेश्वरधाम पर उमड़ा भक्ति का महासागर


कुबेरेश्वर धाम में शिवमहापुराण के दौरान श्रद्धालुओं का अभिवाचन करते हुए पंडित प्रदीप मिश्रा


सीहोरनगरम्, २६ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य सीहोरजनपदस्य समीपे स्थिते कुबेरेश्वरधाम्नि आयोजितस्य गुरुपूर्णिमा-महोत्सवस्य अन्तर्गतं शिवमहापुराणकथायाः अवसरे रविवासरे अभूतपूर्वया भक्त्या परिपूर्णः अभवत्। देशस्य विभिन्नराज्येभ्यः आगताः चतुर्लक्षाधिकाः श्रद्धालवः शिवमहापुराणस्य श्रवणं कृत्वा भगवतः भोलेनाथस्य आशीर्वादम् अलभन्त। सम्पूर्णं धाम “हर-हर महादेव” इति घोषैः शिवमयेन वातावरणेन च गुञ्जितम् अभवत्।

शिवमहापुराणकथायाः तृतीये दिने कथावाचकः पण्डितः प्रदीपमिश्रः अवदत् यत् यः जनः शुद्धहृदयेन शिवे विश्वासं करोति, तस्य जीवनस्य सर्वं दुःखखं शिवकृपया क्षणमात्रेण नश्यति। मनुष्यः यानि कर्माणि करोति, तेषामेव फलं प्राप्नोति। भगवतः शिवस्य पूजा, अर्चना तथा भक्त्या जीवने सुखं समृद्धिश्च आगच्छतः। यदि कदाचित् दुःखं क्लेशो वा आगच्छति, तर्हि भगवान् शिवः तानि दुःखानि हरति, यदि वयं समये समये तस्मै कृतज्ञतां प्रकटयेम तथा तस्य भक्तौ निरताः भवेम। शिवपुराणस्य पाठेन सकारात्मक-ऊर्जायाः सञ्चारः भवति, नकारात्मकता च निवर्तते।

अस्मिन्नवसरे व्यासपीठतः सूचितं यत् अग्रिमे ११ अगस्ते सावन-महाशिवरात्रेः पावनावसरे पुनः ऐतिहासिकः कार्यक्रमः भविष्यति। तस्मिन् विश्वव्यापी अन्तर्जाल-शिवाभिषेकस्य आयोजनं भविष्यति, यस्मिन् देशविदेशयोः लक्षशः श्रद्धालवः स्वगृहेभ्यः एव भगवतः शिवस्य अभिषेकं कृत्वा आध्यात्मिकानुष्ठाने सहभागिनः भविष्यन्ति।

कथावाचकः पण्डितः प्रदीपमिश्रः श्रद्धालून् सम्बोधयन् अवदत् यत् “शिव” इति नाम्नि जीवनस्य सम्पूर्णं सुखं निहितम् अस्ति। सम्पूर्णस्य ब्रह्माण्डस्य समस्ता ऊर्जा शिवमयी अस्ति। यथा परिवारे रक्तचापः, मधुमेहः इत्यादयः रोगाः परवर्तिषु वंशेषु अपि प्रभावं जनयन्ति, तथैव यदि परिवारस्य कश्चित् सदस्यः भक्ति-पूजा-सत्सङ्ग-सत्कर्मसु निरतः भवति, तर्हि तस्य सकारात्मकः प्रभावः सम्पूर्णे परिवारे दृश्यते, गृहं च स्वर्गसदृशं भवति। पूर्वजन्मकृतानां कर्मणां फलं प्रत्येकं अवश्यमेव भोक्तव्यम्, अतः मनुष्येण दुष्कर्माणि परित्यज्य सदैव सत्कर्म, सेवा, परोपकारः तथा भगवद्भक्तेः मार्गः स्वीकरणीयः।

सेवाभाविनां जनानां कृते केवलं धनं न, अपितु उदारचित्तमपि भगवान् प्रदत्तवान्

कांवडयात्रायाः प्रसङ्गे पण्डितः प्रदीपमिश्रः अवदत् यत् ये जनाः कांवडयात्रिभ्यः मार्गे निःशुल्कं जलपानं, चायं, भोजनं, फलाहारं, पेयजलञ्च प्रददति, ते भगवतः शिवस्य सत्यसेवकाः सन्ति। भगवान् भोलेनाथः तादृशेभ्यः सेवाभाविभ्यः केवलं धनमेव न, अपितु सेवायै उदारं हृदयमपि प्रदत्तवान्, येन ते सहस्रशः श्रद्धालून् निःस्वार्थभावेन सेवितुं समर्थाः भवन्ति।

गुरवे शिष्यस्य धनवैभवेन न प्रयोजनम्

कथावाचकः पण्डितः राघवमिश्रः स्वप्रवचने अवदत् यत् सत्गुरुः स्वशिष्यं भगवतः शरणं प्रापयति। गुरोः शिष्यस्य धनसम्पत्त्या, सत्तया वा वैभवेन किमपि प्रयोजनं नास्ति; तस्य एकमेव लक्ष्यं शिष्यस्य जीवनं सफलं, सार्थकं, कल्याणकरञ्च कर्तुम् अस्ति। सः श्रद्धालुभ्यः गुरुवचनपालनस्य, सत्सङ्गे निरन्तरसंलग्नतायाः तथा भगवति दृढश्रद्धायाः पालनस्य सन्देशम् अददात्।

सम्पूर्णे धाम्नि भक्तेः सेवायाश्च अद्भुतं वातावरणम्

विठलेश-सेवा-समितेः माध्यम-प्रभारी मनोजदीक्षितः अवदत् यत् कुबेरेश्वरधाम्नि निरन्तरं वर्धमानां श्रद्धालूनां सङ्ख्यां दृष्ट्वा आयोजनसमितिः, सहस्रशः सेवकाः तथा प्रशासनम् भोजनप्रसादस्य, चिकित्सायाः, सुरक्षायाः, यातायातस्य, पेयजलस्य तथा अन्यासामावश्यकव्यवस्थानां सुचारुरूपेण सञ्चालनार्थं निरन्तरं प्रयतन्ते। सम्पूर्णे धाम्नि भक्ति-सेवा-श्रद्धायाः अद्भुतं वातावरणं विराजते।

Hindusthan Samachar / अंशु गुप्ता