रतलामनगरे ६८ कोटिरूप्यकाधिकव्ययेन निर्मितयोः बिरमावल-रावटी-सांदीपनि-विद्यालययोः लोकार्पणम्
– सांदीपनि-विद्यालयः कस्मादपि देवालयात् न्यूनः नास्ति, अत्रतः भविष्यनिर्मातारः निर्गमिष्यन्ति : मन्त्री डॉ. विजयशाहः रतलामनगरम्, २५ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य जनजातीयकार्यमन्त्री तथा जनपदस्य प्रभारीमन्त्री डॉ. कुँवरविजय-शाहः, सूक्ष्म-लघु-मध्
सांदीपनि विद्यालयों का हुआ लोकार्पण


– सांदीपनि-विद्यालयः कस्मादपि देवालयात् न्यूनः नास्ति, अत्रतः भविष्यनिर्मातारः निर्गमिष्यन्ति : मन्त्री डॉ. विजयशाहः

रतलामनगरम्, २५ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य जनजातीयकार्यमन्त्री तथा जनपदस्य प्रभारीमन्त्री डॉ. कुँवरविजय-शाहः, सूक्ष्म-लघु-मध्यमोद्यम-मन्त्री चैतन्यकाश्यपः च शनिवासरे रतलाम-जनपदस्य बिरमावल-ग्रामे प्रायः ६८ कोटिरूप्यकाणां व्ययेन निर्मितयोः द्वयोः अत्याधुनिकयोः सांदीपनि-विद्यालययोः लोकार्पणम् अकुरुताम्। एतेषु बिरमावलग्रामे ३४ कोटिः ६५ लक्षरूप्यकाणां तथा रावटीस्थले ३३ कोटिः ४८ लक्षरूप्यकाणां व्ययेन निर्मितौ सांदीपनि-विद्यालयौ स्तः।

लोकार्पणानन्तरं प्रभारीमन्त्री डॉ. विजयशाहः तथा मन्त्री चैतन्यकाश्यपः विद्यालयपरिसरस्य परिभ्रमणं कृत्वा विद्यार्थिभिः निर्मितां प्रदर्शिनीम् अवलोकितवन्तौ, तेषां प्रतिभां च प्रशंसितवन्तौ। अस्मिन् अवसरे प्रतिभाशालिभ्यः विद्यार्थिभ्यः प्रोत्साहन-रूपेण स्कूटीयानानि तथा सङ्गणक-यन्त्राणि अपि प्रदत्तानि।

समारोहं सम्बोधयन् प्रभारीमन्त्री डॉ. कुँवरविजयशाहः अवदत् यत् सांदीपनि-विद्यालयाः देवालयात् न्यूनाः न सन्ति, यतः अत्र बालानां उज्ज्वलभविष्यस्य नूतना जीवनधारा प्रवर्तते। सः अवदत् यदद्य सरस्वत्याः मन्दिरस्य लोकार्पणम् अभवत्, अधुनातनीयः वंशः भाग्यवान् अस्ति, यतो हि तेभ्यः आधुनिकसुविधासम्पन्नेषु विद्यालयेषु शिक्षाग्रहणस्य अवसरः लभ्यते।तेन उक्तं यत् सर्वकारः विद्यार्थिभ्यः निःशुल्कगणवेशान्, द्विचक्रिकाः, पाठ्य-पुस्तकानि तथा अन्याः बह्वीः सुविधाः प्रददाति। शिक्षाक्षेत्रे क्रान्तिकारी-परिवर्तनानि अपि अभवन्। विद्यार्थिनः सकारात्मकचिन्तनेन अग्रे गन्तुम् आह्वयन् सः अवदत्— “चिन्तनं परिवर्तयत, तारकाः अपि परिवर्तिष्यन्ते।” प्रभारीमन्त्री बिरमावल-सांदीपनि-विद्यालयं प्रति गच्छतः प्रायः सार्धैक-किलोमीटरदीर्घस्य मार्गस्य डामरी-करणस्य अपि घोषणाम् अकरोत्।

सूक्ष्म-लघु-मध्यमोद्यममन्त्री चैतन्य-काश्यपः अवदत् यत् सांदीपनि-विद्यालयः भविष्यनिर्माणस्य अद्वितीयः प्रयत्नः अस्ति। भगवान् श्रीकृष्णः बलरामः च सांदीपन्याश्रमे शिक्षां प्राप्य ज्ञानस्य संस्काराणां च आदर्शं प्रस्तुतवन्तौ। तामेव भावनां आत्मसात्कृत्य राज्यसर्वकारेण आधुनिकसुविधासम्पन्नाः, गुणवत्तायुक्त-शिक्षायुक्ताः, श्रेष्ठाध्यापकसमन्विताश्च एते विद्यालयाः निर्मिताः। सः विद्यार्थिनः मनोयोगेन अध्ययनं कर्तुं स्वग्रामस्य, स्वजनपदस्य, स्वराज्यस्य च यशः वर्धयितुम् आहूतवान्।

रतलाम-ग्रामीण-क्षेत्रस्य विधायकः मथुरालालडामोरः अवदत् यत् प्रदेश-सर्वकारेण शिक्षाव्यवस्थायां व्यापकानि परिवर्तनानि कृतानि। विद्यार्थिभ्यः भोजनं, गणवेशः, द्विचक्रिका इत्यादयः विविधाः सुविधाः प्रदीयन्ते। सः बिरमावल-प्रदेशे उच्चशिक्षायाः आवश्यकतां निर्दिश्य महाविद्यालयस्य स्थापनायाः अपि आग्रहम् अकरोत्।

जनपदयोजनासमितेः सदस्यः प्रदीप-उपाध्यायः अवदत् यत् एषः भव्यः विद्यालयः बालानाम् उज्ज्वलभविष्यस्य दृढाधार-शिला भविष्यति तथा च अत्र शिक्षाक्षेत्रे नूतनाः आयामाः स्थापिताः भविष्यन्ति।

अस्मिन् कार्यक्रमे रतलाम-ग्रामीण-क्षेत्रस्य विधायकः मथुरालालडामोरः, जनपदयोजनासमितेः सदस्यः प्रदीप-उपाध्यायः, जनपदपञ्चायताध्यक्षा लाला-बाईचन्द्रवंशी, पूर्वविधायिका सङ्गीता-चारेलः, अन्ये जनप्रतिनिधयः, जनपदा-धिकारी मिशासिंहः, आरक्षक-अधीक्षकः अमितकुमारः, जनपद-पञ्चायतस्य मुख्यकार्यपालनाधिकारी वैशालीजैनः, अन्ये जनपदाधिकारीणः, शिक्षकाः, विद्यार्थिनः, पत्रकाराश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan