Enter your Email Address to subscribe to our newsletters

ग्लासगो, 26 जुलाईमासः (हि.स.)।भारतीया प्रख्याता भारोत्तोलिका मीराबाई चानू राष्ट्रमण्डलक्रीडा २०२६ स्पर्धायां उत्कृष्टं प्रदर्शनं कृत्वा महिलानां अष्टचत्वारिंशत्किलोग्रामभारवर्गे स्वर्णपदकं विजितवती। अनेन सा ग्लास्गो-नगरे भारतस्य प्रथमं स्वर्णपदकं समर्पितवती तथा राष्ट्रमण्डलक्रीडासु निरन्तरं तृतीयवारं स्वर्णपदकं प्राप्य इतिहासं निर्मितवती।
मीराबाई चानू स्नैच् स्पर्धायां द्विवारं कीर्तिमानं भङ्क्त्वा पञ्चाशीतिकिलोग्रामभारं उत्थापितवती। ततः क्लीन् एण्ड् जर्क् स्पर्धायां पञ्चाधिकशतकिलोग्रामभारं सफलतया उत्थाप्य समग्रतया नवत्यधिकशतकिलोग्रामभारेण स्वर्णपदकं स्वनाम्नि कृतवती। तस्याः प्रभावशालिनः प्रदर्शनस्य पुरतः अन्याः प्रतियोगिन्यः बहु पृष्ठतः अवस्थिताः।
अनेन विजयेन मीराबाई राष्ट्रमण्डलक्रीडासु स्वस्य स्वर्णिमयात्रां निरन्तरीकृतवती। सा २०१८ तमे वर्षे गोल्डकोस्ट् राष्ट्रमण्डलक्रीडासु एकोनपञ्चाशत्किलोग्रामभारवर्गे स्वर्णपदकं विजितवती। अनन्तरं २०२२ तमे वर्षे बर्मिंघम् राष्ट्रमण्डलक्रीडास्वपि तस्मिन्नेव भारवर्गे स्वर्णपदकं प्राप्तवती। अधुना २०२६ तमे वर्षे ग्लास्गो राष्ट्रमण्डलक्रीडासु अष्टचत्वारिंशत्किलोग्रामभारवर्गे स्वर्णपदकं विजित्य सा स्वर्णपदकत्रयस्य ऐतिहासिकीं सिद्धिं सम्पन्नवती।
मीराबाई चानू इयं सफलता पुनरेकवारम् अन्ताराष्ट्रियक्रीडामञ्चे भारतीयभारोत्तोलनस्य सामर्थ्यं प्रतिपादितवती। उत्कृष्टप्रदर्शनम्, सातत्यं, दाबपरिस्थितिष्वपि असाधारणक्रीडाकौशलं च तां दीर्घकालात् भारतस्य अत्यन्तविश्वसनीयासु क्रीडिकासु अन्यतमां स्थापितवत्।
----------------------
Hindusthan Samachar / Dheeraj Maithani