Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 26 जुलाईमासः (हि.स.)।
दिल्लीसर्वकारेण राज्याल्पसंख्यकआयोगस्य अध्यक्षपदे निर्मलजैनस्य तथा राज्यमहिलाआयोगस्य अध्यक्षपदे लतागुप्तायाः नियुक्तिः कृता। एषा सूचना रविवासरे दिल्लीसर्वकारेण सामाजिकमाध्यमस्य स्वकीयलेखे प्रसारिता।
दिल्लीसर्वकारेण निर्मलजैनः दिल्लीअल्पसंख्यकआयोगस्य अध्यक्षत्वेन नियुक्तः। कुलदीपसिंहः मोहम्मदहारूनश्च आयोगस्य सदस्यत्वेन नियुक्तौ। मुख्यमन्त्री रेखागुप्ता दिल्लीअल्पसंख्यकआयोगस्य नवनियुक्तम् अध्यक्षं निर्मलजैनं सदस्यांश्च शुभकामनाः प्रदत्तवती। तया उक्तं यत् यूयं सर्वे सबका साथ, सबका विकास, सबका विश्वास, सबका प्रयास इति मन्त्रं सशक्तीकुर्वन्तः समाजस्य सर्वेषां वर्गाणाम् अधिकाराणां, सम्मानस्य, कल्याणस्य च कृते समर्पितभावेन कार्यं करिष्यथ तथा सामाजिकसौहार्दस्य समावेशिविकासस्य च नूतनाम् ऊर्जां प्रदास्यथ।
मुख्यमन्त्री उक्तवती यत् दिल्लीसर्वकारः समाजस्य सर्वेषां वर्गाणाम् अधिकाराणां, सम्मानस्य, कल्याणस्य च प्रति दृढसङ्कल्पितः अस्ति। एताः नियुक्तयः समाजस्य सर्वेषां वर्गाणाम् अधिकाराणां, सम्मानस्य, कल्याणस्य च सुदृढीकरणाय सामाजिकसौहार्दस्य समावेशिविकासस्य च प्रवर्धनाय महत्त्वपूर्णं पदम् सन्ति।
दिल्लीसर्वकारेण लतागुप्ता दिल्लीमहिलाआयोगस्य अध्यक्षा नियुक्ता। श्यामबाला, मालतीवर्मा, लतासोढी, सनरक्षिकाशर्माझा तथा रेनूभल्ला आयोगस्य सदस्यत्वेन नियुक्ताः। मुख्यमन्त्री ताभ्यः शुभकामनाः प्रदाय उक्तवती यत् यूयं सर्वाः दिल्लीसर्वकारेण सह समन्वयं स्थापयित्वा महिलानां सुरक्षा, गरिमा, अधिकाराः, सशक्तीकरणं च नूतनां दिशां नेष्यथ तथा संवेदनशीलस्य न्यायपूर्णस्य सुरक्षितस्य च दिल्लीनगरस्य निर्माणे महत्त्वपूर्णं योगदानं दास्यथ।
तया उक्तं यत् महिलानां सुरक्षा, सम्मानः, अधिकारसंरक्षणम्, सशक्तीकरणं च इत्येषु क्षेत्रेषु दिल्लीमहिलाआयोगस्य महत्त्वपूर्णा भूमिका अस्ति। एताभिः नियुक्तिभिः आयोगस्य कार्यक्षमतायाः नूतना गतिः भविष्यति तथा महिलाभ्यः न्यायस्य, संरक्षणस्य, सहाय्यस्य च प्राप्तिः अधिकं प्रभावशालिनी भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani