नेपालस्य सशस्त्रं प्रहरी बलं भारतीयसीम्नि नियुक्तं 'बॉर्डर इंटर एक्शन टीम इत्येतत्'
काठमांडूः, 26 जुलाईमासः (हि.स.)। नेपालभारतसीमायाः सुगमव्यवहारस्य संवर्धनाय, सीमावर्तिक्षेत्रेषु प्रवर्तमानानाम् अवैधक्रियाकलापानां नियन्त्रणाय, आवश्यकसूचनानां सङ्ग्रहार्थं च सशस्त्रप्रहरीबलेन ‘सीमान्तपरस्परक्रियादलम्’ (बीआईटी) इति विशेषदलस्य नियु
नेपाल का सशस्त्र प्रहरी बल


काठमांडूः, 26 जुलाईमासः (हि.स.)।

नेपालभारतसीमायाः सुगमव्यवहारस्य संवर्धनाय, सीमावर्तिक्षेत्रेषु प्रवर्तमानानाम् अवैधक्रियाकलापानां नियन्त्रणाय, आवश्यकसूचनानां सङ्ग्रहार्थं च सशस्त्रप्रहरीबलेन ‘सीमान्तपरस्परक्रियादलम्’ (बीआईटी) इति विशेषदलस्य नियुक्तिः कृता।

जुलैमासस्य षड्विंशतितमदिनाङ्कात् आरभ्य झापा-जनपदस्य काङ्कड़भिट्टा, मोरङ-जनपदस्य रानी, पर्सा-जनपदस्य बीरगञ्ज, रुपन्देही-जनपदस्य डण्डा, बाँके-जनपदस्य जमुनाह तथा कैलाली-जनपदस्य त्रिनगर इत्येषु प्रमुखसीमानाकेषु सशस्त्रप्रहरी-नायबनिरीक्षकस्य (एएसआई) नेतृत्वे प्रत्येकस्मिन् स्थाने चतुर्दशजवानानां दलं नियुक्तम्। एतत् दलं सम्बन्धितक्षेत्रेषु स्थितेषु सशस्त्रप्रहरीबलस्य नेपालसीमारक्षागुल्मेषु (कम्पनी अथवा बटालियनाधारकेषु) स्थित्वा प्रमुखसीमानाकेषु कार्यं करिष्यति।

सशस्त्रप्रहरीमहानिरीक्षकः नारायणदत्तपौडेलः रविवासरे रुपन्देही-जनपदस्थितं डण्डा-सीमारक्षागुल्मं गत्वा दलस्य सदस्येभ्यः आवश्यकान् निर्देशान् प्रदत्तवान् तथा अस्य परिचालनस्य शुभारम्भम् अकरोत्। तेन सीमाक्षेत्रे प्रतिदिनं प्रवर्तमानानां क्रियाकलापानाम् अपि सूचना गृहीता।

एतत् विशेषदलम् विशेषतया सीमां लङ्घमानानां महिलानां, बालकानां, वृद्धानां च सहाय्यं करिष्यति। मानवतस्कर्याः निवारणं, प्रतिबन्धितमादकद्रव्याणां, वन्यजीवसम्बद्धानाम् अवैधवस्तूनां च निगराणी, नियन्त्रणं, सूक्ष्मपरीक्षणं च अस्य प्रमुखकर्तव्यानि भविष्यन्ति।

उपपुलिसाधीक्षकः शैलेन्द्रथापः अवदत् यत् अन्येष्वपि सीमाप्रवेशद्वारेषु सम्बन्धितवाहिनीप्रमुखैः अस्य दलस्य परिचालनम् आरब्धम्। एतत् दलं प्रतिपाल्यां एकया महिला-प्रहरीण्या सह प्रातः षड्वादनात् सायं अष्टवादनपर्यन्तं सामान्यवेषेण कार्यरतं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani