Enter your Email Address to subscribe to our newsletters

काठमांडूः, 26 जुलाईमासः (हि.स.)।
नेपालस्य वित्तमन्त्री डॉ. स्वर्णिमवाग्ले विदेशेषु निवसद्भ्यः नेपालीप्रवासिभ्यः स्वदेशस्य विकाससमृद्ध्योः संवर्धनार्थं मातृभूमौ निवेशं कर्तुम् आग्रहं कृतवान्।
ऑस्ट्रेलियादेशे निवसद्भिः युवा-नेपाली-उद्यमिभिः सह आभासीसंवादस्य अवसरस्य डॉ. वाग्ले तान् “एकवारं नेपाली, सर्वदा नेपाली” इति नेपालराष्ट्रियस्वतन्त्रपक्षस्य (आरएसपी) सिद्धान्ते विश्वासं धारयितुं प्रोत्साहितवान्।
मन्त्रिणः वैयक्तिकसचिवालयस्य अनुसारेण डॉ. वाग्ले उक्तवान् यत् विदेशेषु निवसन्तः नेपालीजनाः सद्भावनादूतत्वेन कार्यं कुर्वन्ति तथा शासनस्य आर्थिकविकासप्रयत्नेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति। तेन आर्थिकक्रियाकलापानां प्रवर्धनार्थं सर्वकारेण कृतानां करसुधाराणां, राजस्वसुधाराणां, उद्योगानुकूलनीतीनां च विवेचनं कृतम्।
सः सहभागिभ्यः आश्वासनमपि दत्तवान् यत् ये नेपालीजनाः स्वदेशे निवेशं करिष्यन्ति, ते स्वलाभांशं निवेशफलञ्च सुलभतया पुनः स्वदेशं प्रत्यानेतुं समर्थाः भविष्यन्ति।
रविवासरे आयोजितायां चर्चायां मन्त्री वाग्ले अवदत्— “एनआरएन-बन्धपत्राणि, अपतटीय-बन्धपत्राणि, वैकल्पिकवित्तपोषणतन्त्राणि च तासु परिवर्तनकारिषु पहलासु अन्तर्भवन्ति, याः सर्वकारेण विशेषतः नेपालीप्रवासीनां हितं दृष्ट्वा प्रवर्तिताः।
---------------
Hindusthan Samachar / Dheeraj Maithani