‘मनसः वाणी’ कार्यक्रमे प्रधानमन्त्रिणा सीतामढी-जनपदस्य प्लास्टिक-अपशिष्ट-प्रबन्धन-प्रयत्नस्य प्रशंसा कृता
पटनानगरम्, २६ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे स्वस्य मासिक-आकाशवाणी-कार्यक्रमे ‘मनसः वाणी’ बिहारस्य सीतामढी-जनपदस्य प्लास्टिक-अपशिष्ट-प्रबन्धन-प्रयत्नस्य प्रशंसां कृत्वा ताम् पर्यावरण-संरक्षणस्य, संसाधनानां पुनरुपयोगस्य, स्वच
प्लास्टिक के कचरे से तैयार किये गए बैंच-डेस्क की फाइल फोटो


पटनानगरम्, २६ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे स्वस्य मासिक-आकाशवाणी-कार्यक्रमे ‘मनसः वाणी’ बिहारस्य सीतामढी-जनपदस्य प्लास्टिक-अपशिष्ट-प्रबन्धन-प्रयत्नस्य प्रशंसां कृत्वा ताम् पर्यावरण-संरक्षणस्य, संसाधनानां पुनरुपयोगस्य, स्वच्छता-अभियानस्य च प्रेरणादायकम् उदाहरणम् इति वर्णितवान्। प्रधानमन्त्रीणा अस्य प्रयत्नस्य उल्लेखं कृते सति जनपद-प्रशासने स्थानीय-जनानां च मध्ये उत्साहस्य वातावरणम् अभवत्। अधिकारिणः मन्यन्ते यत् एतेन अस्य नवोन्मेषस्य राष्ट्रीयस्तरे नूतन: परिचय: भविष्यति तथा अन्ये जनपदाः अपि एतस्य आदर्शस्य अनुसरणाय प्रेरिताः भविष्यन्ति।

वस्तुतः सीतामढी-जनपदस्य बाजपट्टी-प्रखण्डस्थितायां अपशिष्ट-प्रबन्धन-एककस्य सिङ्गल्-यूज्-प्लास्टिक-अप-शिष्टस्य वैज्ञानिक-रीत्या पुनर्चक्रणं कृत्वा उपयोगी-उपवेशनासनानि निर्मीयन्ते। अस्याः योजनायाः अन्तर्गतं प्रायः ४० किलोग्राम-परिमितात् सिङ्गल-यूज-प्लास्टिक-अपशिष्टात् एकं दृढं दीर्घस्थायी च उपवेशनासनं निर्मीयते। एतेन प्रयत्नेन एकतः प्लास्टिक-अपशिष्टस्य सुरक्षित-निस्तारणं भवति, अपरतः ग्रामीण-क्षेत्रेषु सार्वजनिक-प्रयोगाय स्थायी-उपकरणानि अपि प्रदीयन्ते।

अस्याः योजनायाः प्रभावी-क्रियान्वयनार्थं जनपद-प्रशासनेन बक्सर-स्थितया राय-इण्डस्ट्रीज-निर्माण्या सह व्यावसायिक-सामञ्जस्य-सन्धिः कृता। तदनुसारं अपशिष्ट-प्रबन्धन-एकके सञ्चितस्य चतुःसहस्र-किलोग्राम-परिमितस्य प्लास्टिक-अपशिष्टस्य पुनर्चक्रणं कृत्वा प्रथमचरणे पञ्चाशीति: आकर्षक-दृढ-उपवेशनासनानि निर्मितानि। एतानि उपवेशनासनानि जनपदस्य विभिन्नासु ग्रामपञ्चायतेषु, राजकीय-विद्यालयेषु, अन्येषु सार्वजनिक-स्थानेषु च प्रेषितानि, यत्र तेषां प्रयोगः जनसुविधार्थं क्रियते।

सीतामढी-जनपदस्य जनपदाधिकारी रिची-पाण्डेयः अवदत् यत् सिङ्गल्-यूज्-प्लास्टिक-अपशिष्टात् उपकरण-निर्माणस्य एष: प्रयत्न: पर्यावरण-संरक्षणेन सह स्थानीय-स्तरे रोजगार-सृजनेऽपि सहायकः सिद्धः भवति। सः अवदत् यत् पुनर्चक्रणेन निर्मितानि उत्पादानि पूर्णतया उपयोगिनि, दीर्घस्थायीनि, पर्यावरणानुकूलानि च सन्ति। एतेन प्लास्टिक-प्रदूषणस्य न्यूनीकरणेन सह ‘वेस्ट्-टु-वेल्थ’ अर्थात् अपशिष्टस्य संसाधने परिवर्तनस्य अवधारणा अपि प्रोत्साह्यते।

जनपदाधिकारी अवदत् यत् अस्याः प्रौद्योगिक्याः माध्यमेन निर्मिते प्रत्येकस्मिन् उपवेशनासने प्रायः द्विसहस्र-रूप्यकाणां प्रत्यक्ष-व्ययस्य अवशेष: भवति। एतेन स्थानीय-निकायानां न्यून-व्ययेन उत्तमाः सार्वजनिक-सुविधाः प्रदातुं साहाय्यं भवति। सः अवदत् यत् भविष्ये अस्य आदर्शस्य विस्तारः जनपदस्य अन्येषु क्षेत्रेषु राज्यस्य अन्यभागेषु च कर्तुं योजना अस्ति।

सः पुनः अवदत् यत् लोहिया-स्वच्छता-अभियानस्य अन्तर्गतं बाजपट्टी इत्यस्य अतिरिक्तं रुन्नीसैदपुर, डुमरा तथा रीगा इत्येषु स्थानेष्वपि प्लास्टिक-अपशिष्ट-प्रसंस्करण-एककानि स्थापितानि सन्ति। केवलं बाजपट्टी-स्थितस्य प्रसंस्करण-एककस्य कृते अद्यावधि प्रायः एकादश-सहस्र-किलोग्राम-परिमितः प्लास्टिक-अपशिष्टः सङ्गृहीतः, यस्य चरणबद्ध-रीत्या पुनर्चक्रणं क्रियते। एतेन जनपदे प्लास्टिक-अपशिष्टस्य वैज्ञानिक-प्रबन्धनाय नूतना गतिः प्राप्ता।

जनपद-प्रशासनस्य कथनम् अस्ति यत् प्रधानमन्त्रिणा ‘मनसः वाणी’ कार्यक्रमे अस्य प्रयत्नस्य उल्लेखः कृते सति न केवलं सीतामढी-जनपदस्य अस्य अभिनव-प्रकल्पस्य राष्ट्रीय-परिचयः प्राप्तः, अपितु देशव्यापि प्लास्टिक-अपशिष्ट-प्रबन्धनस्य, पुनर्चक्रणस्य, पर्यावरण-संरक्षणस्य च विषये जन-जागरूकताम् अपि वर्धितवान्। एषः प्रकल्पः प्रेरणादायक-आदर्शरूपेण प्रतिष्ठितः अभवत् तथा स्वच्छ-भारत-अभियानस्य सतत-विकास-लक्ष्याणां च सुदृढीकरणे महतीं भूमिकां निर्वहिष्यतीति अपेक्षा व्यक्ता।

Hindusthan Samachar / Divya Ranjan