प्रधानमंत्री 'मन की बात' इत्येतन्मध्ये मध्यप्रदेशस्य जलसंरक्षण कार्याणि प्राशंसत, साक्षात् तडागस्य नरसिंहपुरस्य च अमृत सरोवराणां कथनम्
- मुख्यमंत्री डॉ. यादवः ओरछायां स्थानीयजनैस्सहाशृणोत् मन की बात कार्यक्रमम् भोपालम्, 26 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे मन की बात कार्यक्रमे कैच द रेन अभियानस्य प्रसङ्गे मध्यप्रदेशस्य सीधी तथा नरसिंहपुरजनपदयोः जलसंरक्षणा
प्रधानमंत्री नरेन्द्र मोदी और अमृत सरोवर (फाइल फोटो)


- मुख्यमंत्री डॉ. यादवः ओरछायां स्थानीयजनैस्सहाशृणोत् मन की बात कार्यक्रमम्

भोपालम्, 26 जुलाईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी रविवासरे मन की बात कार्यक्रमे कैच द रेन अभियानस्य प्रसङ्गे मध्यप्रदेशस्य सीधी तथा नरसिंहपुरजनपदयोः जलसंरक्षणार्थं सम्पन्नानां कार्याणाम् उल्लेखं कृत्वा राज्यसर्वकारस्य प्रयत्नानां प्रशंसाम् अकरोत्। प्रधानमन्त्री अवदत् यत् मध्यप्रदेशस्य सीधीजनपदे प्रायः पञ्चदशशतं तडागाः निर्मिताः सन्ति तथा नरसिंहपुरजनपदे अमृतसरोवराणि सम्यक् संवर्धितानि सन्ति। तेन उक्तं यत् वर्षाजलस्य प्रत्येकबिन्दोः संरक्षणस्य अभियानं जनान्दोलनरूपेण परिवर्तनीयम्।

प्रधानमन्त्री देशवासिनः स्वसमीपे स्थितस्य तडागस्य, कूपस्य, वाप्याः वा संरक्षणस्य दायित्वं स्वीकर्तुं जलस्य प्रत्येकबिन्दोः संरक्षणाभियाने च सहभागीभवितुम् आहूतवान्। तेन उक्तं यत् अद्य संरक्षितः प्रत्येकः जलबिन्दुः आगामिपीढीनां भविष्यस्य महानिधिः भविष्यति।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादव निवाडीजनपदस्य पर्यटनधार्मिकनगर्यां ओरछायां कञ्चनाघाटे प्रधानमन्त्रिणः मन की बात कार्यक्रमम् अशृणोत्। अस्मिन्नवसरे पञ्चायतग्रामीणविकासमन्त्री प्रह्लादसिंहपटेल, सामाजिकन्यायदिव्याङ्गजनकल्याणोद्यानिकीखाद्यप्रसंस्करणमन्त्री तथा निवाडीजनपदस्य प्रभारीमन्त्री नारायणसिंहकुशवाह, जनप्रतिनिधयः स्थानीयजनाश्च उपस्थिताः आसन्।

प्रधानमन्त्री अवदत् यत् कैच द रेन अभियानस्य सन्देशः अत्यन्तं सरलः अस्ति। यत्र यदा वर्षा भवति तत्रैव जलं संरक्ष्यताम्। एतदेव कारणं यत् चतुर्थजुलै दिनाङ्कात् देशव्यापी विशेषाभियानम् अपि सञ्चाल्यते। अस्याः अभियानस्य अन्तर्गतं वर्षाजलसञ्चयनम्, भूमिजलपुनर्भरणम्, प्राचीनजलस्रोतसां पुनर्जीवनम्, वृक्षारोपणस्य च नूतना गतिः प्रदीयते। ग्रामेषु नगरेषु च, पञ्चायतेषु सामाजिकसंस्थासु च सर्वत्र जनाः उत्साहेन भागं गृह्णन्ति। कुत्रचित् प्राचीनतडागेभ्यः पङ्कः निष्कास्यते, कुत्रचित् कूपाः वाप्यश्च पुनः जीवन्ताः क्रियन्ते। निरुद्धाः नलकूपाः अधुना भूमिजलपुनर्भरणस्य साधनत्वेन उपयुज्यन्ते।

प्रधानमन्त्री मन की बात कार्यक्रमे महाराष्ट्र, आन्ध्रप्रदेश, छत्तीसगढ, उडीसाराज्येषु जलसंरक्षणसम्बद्धकार्याणां उत्साहवर्धकपरिणामानामपि उल्लेखम् अकरोत्।

अस्मिन्नवसरे राज्यसभासांसदः महेशकेवट, निवाडीविधानसभाक्षेत्रस्य विधायकः अनिलजैन अपि उपस्थितौ आस्ताम्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani