Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 26 जुलाईमासः (हि.स.)।असमराज्ये बाढापीडितजनानां साहाय्यार्थम् उद्योगजगत् अपि अग्रे आगच्छति। अस्यैव क्रमस्य अन्तर्गतं प्राग इण्डिया सीमेण्ट प्राइवेट लिमिटेड इति संस्थया मुख्यमन्त्रीराहतनिधौ ११ लक्षरूप्यकाणां योगदानं प्रदाय राहतपुनर्वासकार्येषु सहयोगः प्रदत्तः।
संस्थायाः प्रतिनिधयः रविवासरे मुख्यमन्त्री डॉ हिमन्तबिस्वशर्माणं समागत्य तस्मै ११ लक्षरूप्यकाणां धनादेशं समर्पितवन्तः। एतत् योगदानं कामरूप वाणिज्यमण्डलस्य सदस्यत्वेन राज्यस्य बाढापीडितजनानां साहाय्यार्थं राहतपुनर्वासकार्याणि सुदृढीकर्तुं च प्रदत्तम्।
प्राग इण्डिया सीमेण्ट प्राइवेट लिमिटेड इति संस्था अपि अस्यां प्राकृतिकविपदः कठिनवेलायाम् असमराज्यस्य जनानां सह दृढतया स्थितुं स्वप्रतिबद्धतां पुनः व्यक्तवती। संस्थया उक्तं यत् सा भविष्ये अपि राहतपुनर्वासकार्येषु राज्यसर्वकारस्य प्रयत्नानां सहयोगं निरन्तरं करिष्यति।
उल्लेखनीयं यत् असमराज्यस्य अनेके जनपदाः अर्वाचीनदिनेषु बाढया प्रभाविताः आसन्। एतादृशे समये सर्वकारेण सह विविधाः सामाजिकाः वाणिज्यिकाः औद्योगिकाः संस्थाश्च अपि राहतकार्याणि समर्थयितुं आर्थिकसाहाय्यं अन्यप्रकारसाहाय्यं च प्रददति, येन प्रभावितजनानां समीपे शीघ्रं राहतिः प्राप्येत।
--------------
Hindusthan Samachar / Dheeraj Maithani