Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 26 जुलाईमासः (हि.स.)। केन्द्रीयशिक्षामन्त्रिपदस्य कार्यभारग्रहणस्य अनन्तरमेव प्रह्लादजोशी शिक्षामन्त्रालयस्य कार्यकलापानां समीक्षां प्रारब्धवान्। रविवासरे तेन शिक्षामन्त्रालयस्य वरिष्ठाधिकारिभिः सह प्रथमाया उच्चस्तरीयसमीक्षोपवेशनस्य आयोजनं कृतम्। अस्मिन् उपवेशने मन्त्रालयस्य प्रमुखयोजनानां, लम्बितप्रकरणानां, आगामिकार्ययोजनायाश्च विषये विस्तरेण चर्चा क्रियमाणा अस्ति।
उल्लेखनीयं यत् जन्तरमन्तरे कॉकरोचजनतापार्टी इति दलस्य प्रदर्शनस्य छात्रान्दोलनस्य च अनन्तरं केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधान शनिवासरे स्वपदात् त्यागपत्रम् अददात्। ततः प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे केन्द्रसर्वकारे प्रह्लादजोशी नूतनः केन्द्रीयशिक्षामन्त्री नियुक्तः।
प्रह्लादजोशी अस्मात् पूर्वं केन्द्रसर्वकारे अनेकानां महत्त्वपूर्णमन्त्रालयानां दायित्वं वहितवान्। सः ३० मई २०१९ दिनाङ्के प्रथमवारं केन्द्रीयमन्त्रिमण्डले मन्त्रिपदस्य शपथं गृहीतवान्। तस्मिन् समये तस्मै संसदीयकार्य, कोयलामन्त्रालय, खानमन्त्रालय इत्येतयोः दायित्वं प्रदत्तम्। एषां मन्त्रालयानां दायित्वं सः जून २०२४ पर्यन्तं सम्यक् निर्वाहितवान्।
वर्षे २०२४ सामान्यनिर्वाचनानन्तरं तस्मै उपभोक्तृकार्य, खाद्यसार्वजनिकवितरण, नवीननवीकरणीयऊर्जामन्त्रालययोः दायित्वं प्रदत्तम्। अधुना शिक्षामन्त्रालयस्य कार्यभारं स्वीकृत्य तेन प्रथमदिने एव वरिष्ठाधिकारिभिः सह समीक्षोपवेशनं कृत्वा एतत् सूचितं यत् मन्त्रालयस्य प्राथमिकयोजनानां नीतिगतकार्याणां च शीघ्रगत्या कार्यान्वयने विशेषः बलः प्रदास्यते।--------------
Hindusthan Samachar / Dheeraj Maithani