राष्ट्रपतिः मुर्मू, उपराष्ट्रपतिः राधाकृष्णनः, प्रधानमन्त्री मोदी, अमितशाहः, सिन्हा च कारगिल-विजय-दिवसे वीरयोद्धृभ्यः श्रद्धाञ्जलिम् अर्पितवन्तः
नवदेहली, २६ जुलाईमासः (हि.स.)। कारगिल-विजय-दिवसस्य अवसरे कृतज्ञं राष्ट्रम् अद्य वीरसैनिकान् प्रणमति। अस्मिन् वर्षे मुख्यकार्यक्रमः नवदेहल्याः स्थाने लद्दाखस्य द्रास-स्थिते कारगिल-युद्ध-स्मारके आयोजितः। राष्ट्रपतिः द्रौपदीमुर्मू, उपराष्ट्रपतिः सी.पी
d11610715294c856453e059cce1a620e_1165121994.jpg


नवदेहली, २६ जुलाईमासः (हि.स.)। कारगिल-विजय-दिवसस्य अवसरे कृतज्ञं राष्ट्रम् अद्य वीरसैनिकान् प्रणमति। अस्मिन् वर्षे मुख्यकार्यक्रमः नवदेहल्याः स्थाने लद्दाखस्य द्रास-स्थिते कारगिल-युद्ध-स्मारके आयोजितः। राष्ट्रपतिः द्रौपदीमुर्मू, उपराष्ट्रपतिः सी.पी.-राधाकृष्णनः, प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीय-गृहमन्त्री-सहकारितामन्त्री अमितशाहः तथा जम्मू-कश्मीरस्य उपराज्यपालः मनोजसिन्हा अद्य प्रातः स्वस्व-एक्स-सन्देशेषु भारतीय-सशस्त्र-बलानां शूरसैनिकेभ्यः श्रद्धाञ्जलिम् अर्पितवन्तः। अस्य दिवसस्य पूर्वसन्ध्यायां रक्षामन्त्री राजनाथसिंहः द्रासम् उपगम्य शत्रून् पराजितवतां भारतीयसेनायाः वीरसैनिकान् श्रद्धया स्मृतवान्।

राष्ट्रपतिभवनस्य आधिकारिक-एक्स-माध्यमे राष्ट्रपतिः अलिखत्— “कारगिल-विजय-दिवसे मातृभूमेः रक्षणाय स्वप्राणान् समर्पितवत: वीरयोद्धॄन् प्रति अहं विनम्रां श्रद्धाञ्जलिम् अर्पयामि। तेषाम् अद्वितीयः पराक्रमः, अचलः सङ्कल्पः, अनन्या राष्ट्रभक्तिश्च अस्माकं सेनायाः गौरवशालिनः परम्परायाः अप्रतिमम् उदाहरणम्। राष्ट्रं तेषाम् ऋणि सदा भविष्यति। तेषां शौर्यगाथाः अग्रिमवंशं राष्ट्रसेवायै कर्तव्यनिष्ठायै च निरन्तरं प्रेरयिष्यन्ति।”

उपराष्ट्रपतिः राधाकृष्णनः अलिखत्— “कारगिल-विजय-दिवसे राष्ट्रं तान् भारतीय-सशस्त्र-बलानां वीरसैनिकान् श्रद्धया स्मरति, येषाम् असाधारणं धैर्यम्, सङ्कल्पः, परमं बलिदानञ्च कारगिल-युद्धे भारतस्य ऐतिहासिकं विजयम् असाधयत् तथा राष्ट्रस्य सार्वभौमत्वं प्रादेशिक-अखण्डतां च संरक्षितवत्। एष: विजयः भारतस्य सैन्यशक्तेः, राष्ट्रीयैक्यस्य, मातृभूमेः प्रत्येकम् अङ्गुलं रक्षितुं दृढसङ्कल्पस्य च प्रमाणम् अस्ति। राष्ट्रं वीरसैनिकेभ्यः तेषां परिवारजनभ्यश्च सदा कृतज्ञं भविष्यति। जय हिन्द।”

प्रधानमन्त्री नरेन्द्रमोदी अलिखत्— “कारगिल-विजय-दिवसे समग्रं राष्ट्रं भारतस्य सुरक्षायै समर्पितानां वीरसैनिकानाम् असाधारण-शौर्यं समर्पणं च प्रति कृतज्ञतां प्रकटयति। कठिनतमेष्वपि परिस्थितिषु तेषाम् अदम्यं साहसं राष्ट्रगौरवस्य स्रोतः भविष्यति। तेषाम् अटल-देशभक्तिः कर्तव्यनिष्ठा च भावि-वंशान् निरन्तरं प्रेरयिष्यतः।”

केन्द्रीय-गृहमन्त्री अमितशाहः अलिखत्— “कारगिल-विजय-दिवसः भारतीयसेनायाः अदम्य-शौर्यस्य अद्भुत-पराक्रमस्य च प्रतीकः अस्ति। १९९९ तमे वर्षे हिमालयस्य दुर्गम-हिमाच्छादित-शिखरेषु विषम-परिस्थितिष्वपि, शत्रोः उच्चस्थानस्थ-मोर्चान् उपेक्ष्य, अस्माकं वीरसैनिका: ‘ऑपरेशन-विजय’ इत्यनेन शत्रुं पराजितवन्तः। अस्मिन् दिवसे तान् सर्वान् वीरसपूतान् श्रद्धया स्मरामि, ये स्वस्य परमं बलिदानं दत्त्वा राष्ट्रस्य अखण्डताम् अक्षुण्णां रक्षितवन्तः।”

जम्मू-कश्मीरस्य उपराज्यपालः मनोजसिन्हा अलिखत्— “अहं कारगिल-विजय-दिवसे तान् अमरवीरान् प्रणमामि, ये ‘ऑपरेशन-विजय’ समये मातृभूमेः सार्वभौमत्वस्य सम्मानस्य च रक्षणाय सर्वोच्चं बलिदानम् अददुः। अस्माकं सशस्त्र-बलानाम् असाधारणं शौर्यं भावि-वंशान् सदा प्रेरयिष्यति। अमरवीराणां परिवारजनान् प्रति अपि मम श्रद्धा अस्ति। तेषां निःस्वार्थः समर्पणभावः अस्माकं राष्ट्रगौरवस्य चिरस्थायी प्रतीकः अस्ति।”

उल्लेखनीयम् अस्ति यत् अस्मिन् वर्षे कारगिल-विजय-दिवसस्य मुख्य-कार्यक्रमः नवदेहल्याः स्थाने लद्दाखस्य द्रास-स्थिते कारगिल-युद्ध-स्मारके आयोजितः। कार्यक्रमस्य पूर्वसन्ध्यायां रक्षामन्त्री राजनाथसिंहः द्रासम् उपगत्य बलिदानी-वीरान् श्रद्धाञ्जलिम् अर्पितवान्। एतत् युद्धं १९९९ तमस्य वर्षस्य मे-मासात् आरभ्य २६ जुलाईपर्यन्तं प्रायः षष्टिदिनानि प्रवृत्तम्।

शीतकालस्य कृते शत्रोः अवैधप्रवेशस्य ज्ञाते सति भारतीय-थलसेनया ‘ऑपरेशन-विजय’ तथा भारतीय-वायुसेनया ‘ऑपरेशन-सफेद-सागर’ प्रारब्धम्। भारतीय-सैनिकाः दुर्गम-पर्वतान्, शून्यात् अधः तापमानं च सम्यक् सहमानाः तोलोलिङ्ग, टाइगर-हिल तथा प्वाइण्ट्-४८७५ इत्यादीनि महत्त्वपूर्ण-शिखराणि पाकिस्तानी-अधिकारात् पुनः स्वाधीनानि कृतवन्तः। भारतीयसेनायाः अदम्य-शौर्येण पराक्रमेण च २६ जुलाई १९९९ तमे वर्षे राष्ट्रं सर्वाणि नष्टाणि स्थानानि पुनः स्वाधीनानि कृतवान्। अस्यैव विजयस्य स्मृत्यर्थं प्रतिवर्षं २६ जुलाईमासे कारगिल-विजय-दिवसः आचर्यते।

Hindusthan Samachar / Divya Ranjan