राष्ट्रपतिः यूरोपस्य त्रयाणां राष्ट्राणां यात्रां समाप्य स्वदेशम् प्रत्यागता
नवदेहली, २६ जुलाईमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मू यूरोपस्य त्रयाणां राष्ट्राणां यात्रां समाप्य रविवासरे देहलीम् प्रत्यागता। राष्ट्रपतेः आधिकारिक-एक्स-माध्यमे एषा सूचना प्रसारिता। एषा यात्रा भारतस्य एतेषां राष्ट्राणां च मध्ये द्विपक्षीयसम्बन्
1c2ef169c0cbae23077dbd192a7a37c0_151163333.jpg


नवदेहली, २६ जुलाईमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मू यूरोपस्य त्रयाणां राष्ट्राणां यात्रां समाप्य रविवासरे देहलीम् प्रत्यागता। राष्ट्रपतेः आधिकारिक-एक्स-माध्यमे एषा सूचना प्रसारिता। एषा यात्रा भारतस्य एतेषां राष्ट्राणां च मध्ये द्विपक्षीयसम्बन्धान् अधिकं सुदृढीकर्तुम् आयोजिता आसीत्।

राष्ट्रपतिः स्वयात्राम् २० जुलाईमासे मोल्दोवा-राष्ट्रात् प्रारब्धवती। एषा कस्यापि भारतीय-राष्ट्राध्यक्षस्य मोल्दोवा-राष्ट्रस्य प्रथमा यात्रा आसीत्।

ततः सा २१ तथा २२ जुलाईमासयोः उत्तर-मैसेडोनिया-राष्ट्रस्य प्रवासे आसीत्। राष्ट्रपतिः उत्तर-मैसेडोनिया-राष्ट्रस्य संसदम् अपि सम्बोधितवती तथा भारत-उत्तर-मैसेडोनिया-व्यापार-मेलापकस्य उद्घाटन-सत्रेऽपि सहभागिता कृतवती।

यात्रायाः अन्तिमे चरणे राष्ट्रपतिः २३ जुलाईमासे रोमानिया-राष्ट्रम् अगच्छत्। त्रिदशकाधिककालानन्तरम् एषा कस्यापि भारतीय-राष्ट्राध्यक्षस्य रोमानिया-राष्ट्रस्य प्रथमा यात्रा आसीत्। अस्मिन् अवसरे भारत-रोमानिया-राष्ट्रयोः अग्रिमेषु त्रिषु वर्षेषु द्विपक्षीय-व्यापारं द्विगुणीकर्तुं सम्मतिः अभवत्। उभाभ्यां राष्ट्राभ्यां रक्षाक्षेत्रेण सह बहुषु महत्त्वपूर्णेषु क्षेत्रेषु सहयोगस्य अधिक-सुदृढीकरणविषयेऽपि चर्चा कृता।

स्वदेशं प्रति प्रस्थानात् पूर्वं राष्ट्रपतिः शनिवासरे रोमानिया-देशे भारतीय-समुदायस्य तथा फ्रेण्ड्स ऑफ इण्डिया इति संस्थायाः सदस्यैः सह अपि सम्मिलितवती।

अस्मिन् प्रवासे केन्द्रीय-उपभोक्तृ-कार्य-खाद्य-सार्वजनिक-वितरण-राज्यमन्त्री निमुबेन-जयन्तीभाई-बांभणिया, सांसदः दिनेश-शर्मा तथा सांसदः विजय-बघेल अपि राष्ट्रपतिमहोदयया सह उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan