छात्रैः सह जाताया: कथित-क्रूरतायाः विषये राहुलगान्धिना गृहमन्त्रिणे अमितशाहाय पत्रं प्रेषितम्, उत्तरम् अपि याचितम्
नवदेहली, २६ जुलाईमासः (हि.स.)। लोकसभायाः प्रतिपक्षनेता राहुलगान्धी रविवासरे केन्द्रीय-गृह-सहकारितामन्त्रिणे अमितशाहाय पत्रं प्रेषितवान्। अस्मिन् पत्रे शान्तिपूर्णस्य छात्र-आन्दोलनस्य समये छात्रैः सह जाताया: कथित-क्रूरतायाः विषये उत्तरं याचितवान्।
लोकसभा में नेता प्रतिपक्ष राहुल गांधी (फाइल फोटो)


नवदेहली, २६ जुलाईमासः (हि.स.)। लोकसभायाः प्रतिपक्षनेता राहुलगान्धी रविवासरे केन्द्रीय-गृह-सहकारितामन्त्रिणे अमितशाहाय पत्रं प्रेषितवान्। अस्मिन् पत्रे शान्तिपूर्णस्य छात्र-आन्दोलनस्य समये छात्रैः सह जाताया: कथित-क्रूरतायाः विषये उत्तरं याचितवान्।

राहुलगान्धी एतत् पत्रम् एक्स माध्यमे अपि प्रसारितवान्। सः अलिखत् यत् अस्माकं छात्राः निष्पक्षां उत्तरदायित्वयुक्तां च शिक्षाव्यवस्थां याचन्ते स्म। तेषां वचनं श्रोतुं स्थाने सुरक्षाबलैः तेषु अन्धाधुन्धं कृतः, यस्मिन् घातकायुधानां अश्रुवायोश्च प्रयोगः अपि अभवत्। अस्य कारणेन शतशः जनाः गम्भीररूपेण आहताः अभवन्।

सः आरोपं कुर्वन् अलिखत् यत् सर्वाधिकं चकितकरः विषयः पेलेट्-गन इत्यस्य प्रयोगः अस्ति। माध्यमेषु सामाजिक-माध्यमेषु च प्रकाशितेषु वृत्तान्तेषु गम्भीररूपेण आहताः जनाः स्पष्टतया दृश्यन्ते, येषु एकः पत्रकारः अपि अस्ति। “अहं नवदशवर्षीयं छात्रं साहिल-लोचब: इत्यनेन मिलितवान्। सः तीव्रपीडां अनुभवति तथा पेलेट-गन-गुटिका-प्रहारेण तस्य एकस्य नेत्रस्य दृष्टिः नष्टा भवितुम् आशङ्का वर्तते।”

राहुलगान्धी अलिखत् यत् देहल्यां नियुक्तानि सुरक्षाबलानि अन्ततः गृहमन्त्रिणं प्रति उत्तरदायिनः सन्ति। अतः सः द्वौ प्रश्नौ अपृच्छत्— गृहमन्त्रीत्वेन किं छात्राणां विरुद्धं पेलेट्-गन-इत्यनेन सह घातक-बलप्रयोगस्य अनुमतिः भवता दत्ता आसीत्? यदि न, तर्हि अनुमतिः केन दत्ता? ये सादे-वस्त्रेषु छात्रान् दंडै: प्रहरन्तः दृष्टाः, ते किं आरक्षककर्मिणः आसन् उत स्वयंसेवकाः? तेषां नियुक्तेः अनुमतिः केन प्रदत्ता?

सः अवदत् यत् शान्तिपूर्णं प्रदर्शनं कस्यापि लोकतन्त्रस्य कृते अत्यावश्यकम् अस्ति। प्रदर्शनकारिणां सुरक्षा, संवादेन तेषां समस्यासमाधानं च सर्वकारस्य उत्तरदायित्वम् अस्ति। एतादृशी क्रूर-हिंसा सर्वान् लोकतान्त्रिकान् मर्यादान् लङ्घयति तथा देशे व्यापकं आक्रोशम् उत्पादितवती। युवानः छात्राश्च, ये राष्ट्रस्य भविष्यं सन्ति, उत्तरं उत्तरदायित्वं च याचन्ते। तेषां वाणीं श्रूयताम्।

Hindusthan Samachar / Divya Ranjan