Enter your Email Address to subscribe to our newsletters

द्रासनगरम्, २५ जुलाईमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः शनिवासरे कारगिलयुद्धस्य तेषां वीरनायकानां प्रति भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्, ये राष्ट्रसेवायां स्वप्राणान् न्यवेदयन्। सः सैनिकानां साहसं, वीरतां राष्ट्रस्य प्रति च तेषाम् अचलसमर्पणभावं प्रणम्य सम्मानितवान्।
अधिकारिणां कथनानुसारं रक्षामन्त्री द्रासस्थिते कारगिलयुद्धस्मारके पुष्पाञ्जलिम् अर्पितवान् तथा च बलिदानी-सैनिकानां शौर्यं सर्वोच्च-बलिदानं च सम्मानितवान्।
अस्मिन् गरिमामये समारोहे वरिष्ठ-नागरिकाः सैन्याधिकारीणश्च उपस्थिताः आसन्। अनन्तरं सः कारगिल-विजयदिवससमारोहस्य भागरूपेण आयोजिते ‘शौर्यसन्ध्या’ कार्यक्रमे सहभागी अभवत्। कार्यक्रमे उपस्थितेन सेनायाः वरिष्ठाधिकारिणा उक्तं यत् कारगिलयुद्धस्मारकं अस्माकं सैनिकानां साहसस्य बलिदानस्य च शाश्वतं प्रतीकम् अस्ति। प्रतिवर्षम् अयं अवसरः तेषां मूल्यानां पालनाय अस्माकं सङ्कल्पं पुनः दृढीकरोति, येषां रक्षणार्थं एते वीराः स्वप्राणानाम् आहुतिं दत्तवन्तः।
स्मृतिकार्यक्रमे उपस्थितेन कारगिलयुद्धे बलिदानिनः सैनिकस्य परिवारस्य एकेन सदस्येन उक्तं यत् राष्ट्रं अस्माकं स्वजनान् एतादृशेन सम्मानेन गौरवेण च स्मरति इति दृष्ट्वा अस्मभ्यं बलं प्राप्यते। तेषां बलिदानं न विस्मृतम् अस्ति, एतदेव अस्माकं परमं गौरवविषयः अस्ति।
अस्मिन् अवसरे लद्दाखस्य उपराज्यपालः विनयकुमारसक्सेना, सेनाप्रमुखः जनरल धीरजसेठः, नॉर्दर्न आर्मी-कमान्डर लेफ्टिनेन्ट-जनरल-प्रतीकशर्मा, चतुर्दशकोरस्य जनरल-ऑफिसर-कमाण्डिङ्ग तथा सेनायाः अन्ये वरिष्ठाधिकारीणः अपि उपस्थिताः आसन्।‘शौर्यसन्ध्या’ कार्यक्रमः कारगिल-विजयदिवसस्य उपलक्ष्ये आयोजितेषु प्रमुखेषु कार्यक्रमेषु अन्यतमः अस्ति। अयं कार्यक्रमः १९९९ तमे वर्षे सम्पन्नस्य कारगिलसङ्घर्षे भारतस्य विजयस्य स्मरणं कारयति तथा च भारतीयसशस्त्रबलानां साहसं, वीरतां, त्यागं च सम्मानयति।
Hindusthan Samachar / Divya Ranjan