पीओके भारतस्य अभिन्नम् अङ्गम्, पाकिस्तानेन सह वार्ता अभवत् चेत् केवलम् एष एव विषयः उत्थाप्यते - राजनाथसिंहः
द्रासनगरम्, २६ जुलाईमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः रविवासरे उक्तवान् यत् भारतदेश: पाकिस्तानेन सह केवलं पाकिस्तान-अधिकृत-कश्मीरस्य विषये एव वार्तां करिष्यति। सः एतां घोषणां द्रास-स्थिते कारगिल-युद्ध-स्मारके कारगिल-विजय-दिवस-समारोहे स्वसम्बोध
पीओके भारतस्य अभिन्नम् अङ्गम्, पाकिस्तानेन सह वार्ता अभवत् चेत् केवलम् एष एव विषयः उत्थाप्यते - राजनाथसिंहः


द्रासनगरम्, २६ जुलाईमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः रविवासरे उक्तवान् यत् भारतदेश: पाकिस्तानेन सह केवलं पाकिस्तान-अधिकृत-कश्मीरस्य विषये एव वार्तां करिष्यति। सः एतां घोषणां द्रास-स्थिते कारगिल-युद्ध-स्मारके कारगिल-विजय-दिवस-समारोहे स्वसम्बोधने अकरोत्। रक्षामन्त्री अवदत् यत् भविष्ये पाकिस्तानेन सह या काचिद् वार्ता भविष्यति, सा केवलं पीओके-विषये एव भविष्यति। पीओके भारतस्य अभिन्नम् अङ्गम् अस्ति।

सः अवदत् यत् पाकिस्तानेन स्वराज्यनीतेः भागरूपेण आतङ्कवादः संस्थागतः कृतः अस्ति तथा तस्य सैन्यप्रतिष्ठानस्य आतङ्कवादी-सङ्घटनानां च मध्ये कश्चन भेदः नास्ति। सिंहः अवदत् यत् भारतीयसेनया ‘ऑपरेशन-सिन्दूर’ इत्यस्य माध्यमेन आतङ्कवादिभ्यः तेषां समर्थकेभ्यश्च कठोरं प्रत्युत्तरं दत्तम्, येन एतत् स्पष्टीकृतं यत् भारतं कस्यापि शत्रुतापूर्णस्य कृत्यस्य प्रत्युत्तरं अधिकबलेन दातुं समर्थम् अस्ति। सः पुनरुक्तवान् यत् भारतस्य सार्वभौमत्वं संकटे पातयितुं कृता प्रत्येकम् अपि चेष्टा अस्माकं सशस्त्रबलैः समुचितं प्रत्युत्तरं प्राप्स्यति।

१९९९ तमस्य वर्षस्य कारगिल-युद्धे वीरगतिं प्राप्तान् सैनिकान् श्रद्धया स्मरन् रक्षामन्त्री एतत् युद्धं केवलं सैन्य-कूटनैतिक-विजयः न, अपितु विश्वस्य पुरतः भारतीय-सैनिकानां शौर्यं, दृढसङ्कल्पं, सर्वोच्च-बलिदानं च प्रदर्शितवान् निर्णायकः क्षणः इति वर्णितवान्। सः अवदत् यत् कारगिल-युद्ध-स्मारके उत्कीर्णानि शहीद-सैनिकानां नामानि देशस्य सर्वेभ्यः प्रदेशेभ्यः, धर्मेभ्यः, समुदायेभ्यश्च प्रतिनिधित्वं कुर्वन्ति। एतत् भारतस्य एकतायाः प्रतीकं वर्तते तथा देशं विभक्तुं प्रयतमानानां प्रति दृढं सन्देशम् अपि ददाति।

भारत-पाकिस्तानयोः तुलनां कुर्वन् सिंहः अवदत् यत् भारतं नवोन्मेषेण, प्रौद्योगिक्या, उद्यमितया, अन्तरिक्ष-अन्वेषणेन च निरन्तरं प्रगतिं करोति, यदा तु पाकिस्तानदेश: आतङ्कवादं, कट्टरतां, सीमापार-अनधिकृत-प्रवेशं च प्रोत्साहयति। सः अवदत् यत् भारतं सेमिकण्डक्टर-निर्माणे, स्टार्टअप-उद्यमेषु, उपग्रह-निर्माणे, डिजिटल-अवसंरचनायां च प्रवृत्तम् अस्ति, यदा तु पाकिस्तानः आतङ्कवादं छद्मयुद्धं च प्रोत्साहयति।

युद्धस्य शौर्यगाथाः स्मरन् सिंहः अवदत् यत् अनेके सैनिकाः विंशत्याः प्रारम्भिक-वयसि एव आसन्, येषां बहूनि स्वप्नांसि आकाङ्क्षाश्च आसन्, तथापि ते प्रसन्नतया राष्ट्रसेवायै स्वप्राणान् समर्पितवन्तः। सः बलिदानी-सैनिकानां परिवारजनानाम्—येषु तेषां मातरः, पत्न्यः, बालकाश्च अन्तर्भवन्ति—तेषां गम्भीरदुःखम् अपि स्मृतवान्।

Hindusthan Samachar / Divya Ranjan