Enter your Email Address to subscribe to our newsletters

जयपुरम्, 26 जुलाईमासः (हि.स.)।सेवाभारतीसमितेः (जयपुरप्रान्तः), विद्यादेवी-धर्मार्थन्यासस्य तथा समाजकल्याणमन्त्रालयस्य संयुक्ततत्त्वावधानेन रविवासरे सेवासदनस्य सहकारमार्गस्थिते प्राङ्गणे ‘तृतीयप्रकृतिव्यक्तीनां कृते (अधिकारसंरक्षण) अधिनियमः–२०१९ तथा संशोधनाधिनियमः–२०२६’ इति विषये जागरूकताकार्यशाला आयोजिता। अस्याः कार्यशालायाः उद्देश्यः तृतीयप्रकृतिसमाजस्य प्रति सम्मानभावस्य, संवेदनशीलतायाः, सामाजिकसमरसतायाः तथा समानसहभागितायाः संवर्धनम् आसीत्।
कार्यक्रमस्य शुभारम्भः सेवाभारत्याः प्रान्तीयतृतीयप्रकृतिप्रमुखस्य अनिलशुक्लस्य स्वागतोद्बोधनेन तथा विद्यादेवी-धर्मार्थन्यासस्य परामर्शदातुः अशोकसिन्हस्य प्रस्तावनया अभवत्। एनसीटीपी-संस्थायाः विशेषज्ञसदस्या रवीनाबरिहा विविधासु संस्कृतिषु तृतीयप्रकृतिसमाजस्य ऐतिहासिकसांस्कृतिकसन्दर्भान् प्रकाशयामास। राष्ट्रियस्वयंसेवकसङ्घस्य क्षेत्रसेवाप्रमुखः शिवलहरी सामाजिकसमरसतायाः तथा समाजे सकारात्मकदृष्टिकोणस्य विकासस्य आवश्यकतां प्रतिपादितवान्।
डाॅ. टविषीशर्मा तृतीयप्रकृतिसमुदायस्य शारीरिकमानसिकस्वास्थ्यसम्बद्धविषयेषु विस्तृतां सूचनाम् अददात्। राजस्थानसर्वकारस्य नागरिकाधिकारविभागस्य आईपीएस-अधिकारी ज्ञानचन्दः तृतीयप्रकृतिव्यक्तीनां वैधानिकाधिकारान् तथा अधिनियमस्य प्रमुखप्रावधानानि विवृणोति स्म। राजस्थानसमाजकल्याणमण्डलस्य सचिवः डाॅ. सुआलालपहड़िया केन्द्रराज्यसर्वकारयोः छात्रवृत्तेः, चिकित्सासुविधानां तथा अन्यासां जनकल्याणयोजनानां विषये सूचनाः प्रदत्तवान्।
मितवा-फाउण्डेशनस्य संस्थापिका विद्याराजपूत तथा तृतीयप्रकृतिसामाजिककार्यकर्त्री पोपीदेबनाथ समुदायस्य समक्षम् उपस्थितानां व्यावहारिकचुनौत्यः, सामाजिकसंघर्षान्, अधिकारसम्बद्धान् स्वानुभवान् च सहभागिभिः सह न्यवेदयताम्।
राष्ट्रीयसेवाभारत्याः तृतीयप्रकृतिराष्ट्रीयप्रमुखः ऋषिपालडड़वालः उक्तवान् यत् भारतीयसंस्कृतेः मूलभावः करुणा, समानता, सामाजिकसमरसता च अस्ति। तृतीयप्रकृतिसमाजस्य शिक्षायाः, स्वास्थ्यस्य, रोजगारस्य तथा सम्मानजनकजीवनस्य सुनिश्चितीकरणं समग्रसमाजस्य सामूहिकं दायित्वमिति।
अस्मिन् कार्यक्रमे राष्ट्रियस्वयंसेवकसङ्घस्य प्रान्तप्रचारकः बाबूलालः, प्रान्तसहकार्यवाहः कृष्णकुमारअड़ानिया, सेवाभारत्याः प्रान्तीयमन्त्री मानसिंहः, मातृशक्तेः प्रतिनिधयः, पत्रकाराः, तृतीयप्रकृतिसमाजस्य प्रतिनिधयः तथा विविधसामाजिकसङ्घटनानां पदाधिकारिणः सदस्याश्च बहुसंख्यया उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani