Enter your Email Address to subscribe to our newsletters

– संस्कृतस्य वैश्विकप्रचार-प्रसारविषये उत्तराखण्ड-पुणे-विश्वविद्यालययोः मध्ये विचारमन्थनम्
देहरादूननगरम्, २६ जुलाईमासः (हि.स.)। उत्तराखण्डसर्वकारस्य संस्कृतशिक्षासचिवः दीपककुमारः संस्कृतस्य वैश्विकप्रचार-प्रसारं शैक्षणिकसहयोगं च प्रवर्धयितुम् उद्दिश्य महाराष्ट्रस्य पुणेनगरे स्थितस्य सावित्रीबाई-फुले-पुणे-विश्वविद्यालयस्य तथा अन्येषां शैक्षणिकसंस्थानानां भ्रमणम् अकरोत्। अस्मिन् अवसरे संस्कृत-पाली-प्राकृतभाषाणाम् अध्ययनम्, अनु-सन्धानम्, पाठ्यक्रमविकासः, प्रौद्योगिकी-सहयोगः तथा विद्यार्थिहित-सम्बद्धेषु विविधविषयेषु विस्तृतः विचारविनिमयः अभवत्।
आधिकारिकसूचनानुसारं दीपककुमारः एसपीपीयू-विश्वविद्यालयस्य कुलपतिना प्रो. सुरेशगोसावी, प्रतिकुलपतिना प्रो. परागकालकरः तथा संस्कृत-प्राकृत-पाली-अध्ययनविभागस्य आचार्यैः सह मिलितवान्। सभायां संस्कृतभाषायाः देशे विदेशे च व्यापकप्रचारः, विश्वविद्यालयेषु तस्याः अध्ययन-अध्यापनस्य सुदृढी-करणम् तथा नवीनशैक्षणिक-प्रयत्नानां विषये विचारमन्थनम् अभवत्।
सभायां महाराष्ट्रस्य विभिन्न-विश्वविद्यालयेषु संस्कृतस्य भाषारूपेण विषयरूपेण च प्रोत्साहनार्थं क्रियमाणानां प्रयत्नानां समीक्षा कृता। एसपीपीयू-विश्वविद्यालयस्य संस्कृत-प्राकृत-विभागाध्यक्षेन प्रो. दिवाकर-मोहन्तिना, पूर्वविभागाध्यक्षेन प्रो. देवनाथत्रिपाठिना तथा रामटेकस्थितस्य कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य अधिष्ठात्रा प्रो. हरेकृष्ण-अगस्तिना सह संस्कृतस्य वर्तमानस्थितेः विषये चर्चा अभवत्।
अस्मिन् अवसरे महाराष्ट्रे संस्कृतस्य तृतीयभाषारूपेण समावेशस्य तथा प्राक्-शास्त्रीस्तरस्य विद्यार्थिनां हितार्थम् आवश्यकस्य शासकीयप्रस्तावस्य स्वीकृतेः आवश्यकता प्रतिपादिता। मन्त्रचिकित्सा तथा प्रज्ञाचक्षुः इत्यादयः विषयाः अपि चर्चायाः अङ्गत्वेन समाविष्टाः।
पाली-बौद्ध-अध्ययनविभागस्य विभागाध्यक्षः प्रो. महेशदेवकरः, डॉ. प्रवीणतलतः, डॉ. तृप्तिरानी-तायडे, डॉ. दीपाली-पाटिल, डॉ. प्रणाली-वैनगंकर, डॉ. मृगेन्द्रप्रतापः, डॉ. जयकरः तथा सी-डैक-दलस्य सदस्यैः सह पाली-प्राकृत-संस्कृतभाषाणां पारस्परिकसम्बन्धः, तासाम् उद्भवः विकासश्च विषये विस्तृतः विचारविमर्शः कृतः। सभायां महाराष्ट्रे पाली-अध्ययनस्य वर्तमानस्थितिः, पाठ्यक्रमाः, अनुसन्धानक्रियाकलापाः तथा अन्ताराष्ट्रियविद्यार्थिनां सहभागिता विषये अपि सूचना प्रदत्ता। विभागः सम्प्रति द्वादश शैक्षणिककार्यक्रमान् सञ्चालयति, येषु प्रायः द्विशतं विद्यार्थी अध्ययनरताः सन्ति, अनेके विदेशीयविद्यार्थिनोऽपि अध्ययनं कुर्वन्ति।
सभायां सी-डैक-संस्थया पालीविभागस्य सहयोगेन विकसितायाः अनुवादप्रणाल्याः तथा पाली-शब्दकोश-परियोजनायाः प्रगतिविषये अपि सूचना प्रदत्ता। अस्याः परियोजनायाः अद्यावधि दश खण्डाः प्रकाशिताः इति सूचितम्। विभागस्य समृद्धस्य ग्रन्थालयस्य दुर्लभग्रन्थ-सङ्ग्रहस्य च प्रशंसा कृता।
सभायां संस्कृत-पाली-बौद्ध-अध्ययनयोः मध्ये तुलनात्मक-अनुसन्धानस्य प्रवर्धनस्य आवश्यकता विशेषतया प्रतिपादिता। विशेषज्ञैः तथा सी-डैक-दलस्य सदस्यैः सह अस्मिन् विषये व्यापकः सार्थकश्च विचारविनिमयः अभवत्।
Hindusthan Samachar / अंशु गुप्ता