पश्चिमबङ्गालराज्यम् इव पञ्जाबराज्यस्य जनाः अपि परिवर्त्य कमलपुष्पाणि अर्पयन्ति - मन्त्री उमेशरायः
वाराणसीनगरम्, २६ जुलाईमासः (हि.स.)। श्रीकाशीविश्वनाथ-मन्दिर-परिसरे स्थिते प्रतीक्षाकक्षे रविवासरे पश्चिमबङ्गाल-सर्वकारस्य नगरविकासमन्त्री उमेशरायः अवदत् यत् अहं बाबा-विश्वनाथस्य दर्शनार्थम् आगतः अस्मि। महादेवात् जगतः कल्याणस्य प्रार्थनां करोमि। यथा
पश्चिम बंगाल में मंत्री उमेश राय


वाराणसीनगरम्, २६ जुलाईमासः (हि.स.)। श्रीकाशीविश्वनाथ-मन्दिर-परिसरे स्थिते प्रतीक्षाकक्षे रविवासरे पश्चिमबङ्गाल-सर्वकारस्य नगरविकासमन्त्री उमेशरायः अवदत् यत् अहं बाबा-विश्वनाथस्य दर्शनार्थम् आगतः अस्मि। महादेवात् जगतः कल्याणस्य प्रार्थनां करोमि। यथा पश्चिमबङ्गाले जनतया परिवर्तनं कृत्वा भारतीय-जनता-पार्टी-सर्वकारः स्थापितः, तथैव अग्रिम-विधानसभा-निर्वाचने पञ्जाबेऽपि जनतया कमलचिह्नस्य विजयः विधास्यते।

मन्त्री उमेशरायः अवदत् यत् वाराणसीम् आगत्य अत्र प्रचलन्तीनि विकासकार्याणि पश्यामि। तानि दृष्ट्वा मम मनः अत्यन्तं प्रसीदति। प्रधानमन्त्री नरेन्द्रमोदिनः आगमनानन्तरं वाराणस्यां विकासस्य तरंग: प्रवहति। रिङ्ग-रोड्, एलिवेटेड-रोड्, रोपवे इत्यादीनि बहूनि विकासकार्याणि सम्पन्नानि सन्ति। श्रीकाशीविश्वनाथ-धाम्न: निर्माणसमाप्तेः अनन्तरं सहस्रशः भक्ताः आगत्य स्वस्य आराध्यदेवस्य पूजनम् आराधनां च कुर्वन्ति। अहम् अपि बाबा-विश्वनाथस्य दर्शन-पूजनार्थम् अत्र आगतः अस्मि।

Hindusthan Samachar / Dheeraj Maithani