बिजनौरे निर्मास्यते हुतात्मस्तंभः शौर्यवाटिका, पालिकाध्यक्षेण कृतं भूमिपूजनम्
बिजनौरम्, 26 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य बिजनौरनगरपालिकापरिषदा राष्ट्ररक्षणाय स्वप्राणान् समर्पितवतां वीरसैनिकानां स्मृत्यर्थं शहीदस्तम्भस्य शौर्यवाटिकायाश्च निर्माणं कारयिष्यते। बैराजमार्गस्थितस्य इन्दिरापार्कस्य बहिः शहीदस्तम्भस्य निर्माणार
भूमि पूजन करते हुए पालिकाध्यक्ष


बिजनौरम्, 26 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य बिजनौरनगरपालिकापरिषदा राष्ट्ररक्षणाय स्वप्राणान् समर्पितवतां वीरसैनिकानां स्मृत्यर्थं शहीदस्तम्भस्य शौर्यवाटिकायाश्च निर्माणं कारयिष्यते। बैराजमार्गस्थितस्य इन्दिरापार्कस्य बहिः शहीदस्तम्भस्य निर्माणार्थं पालिकाध्यक्षा इन्दिरासिंहः भारतीयजनतापक्षस्य नेता डॉ बीरबलसिंहः मेजर अभिनवसिंहश्च रविवासरे वैदिकमन्त्राणाम् उच्चारणस्य मध्ये भूमिपूजनम् अकुर्वन्। भूमिपूजनकार्यक्रमस्य संचालनं पण्डितचेतनशर्मणा कृतम्।

अस्मिन् अवसरे पालिकाध्यक्षा श्रीमती इन्दिरासिंहः अवदत् यत् नगरे वीरसैनिकानां स्मृत्यर्थम् अस्य भव्यस्य शहीदस्थलस्य निर्माणं स्वस्य कृते अत्यन्तं गौरवस्य विषयः अस्ति। राष्ट्राय सर्वोच्चबलिदानं दत्तवतां वीरशहीदानां स्मरणार्थम् अस्मात् श्रेष्ठतरं माध्यमम् अन्यत् न भवितुम् अर्हति।

भूमिपूजनकार्यक्रमे जिलासैनिककल्याणाधिकारी कप्तान अनिलकुमारगुप्तः सैनिकः अरविन्दलाम्बा सभासदः संजयबिश्नोई मनोरमाशर्मा बबीताचौधरी अमितठाकुरः हितेशसैनी आदिलः प्रभाकरः अभिषेकराणा राजवीरसिंहः कासिमसाहू ब्रह्मपालसिंहः रामअवतारसिंहः शमशादअहमदः सुरेन्द्रसिंहः वन्दनाअग्रवालः राजकुमारअग्रवालः मनोजकुमारमनी हितेशसैनी च पालिकायाः अधिशासी अधिकारी रामपालसिंहयादवः सहिताः अनेके अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।-------------

Hindusthan Samachar / Dheeraj Maithani