Enter your Email Address to subscribe to our newsletters

फतेहपुरनगरम्, २६ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य फतेहपुरजनपदे रविवासरे कारगिलविजयदिवसस्य पावनावसरे देशस्य अमरवीरबलिदानिनां स्मृत्यर्थं सम्मानार्थञ्च आयोजिते रक्तदानशिविरे षोडश युवानः रक्तदानं कृत्वा आवश्यकताग्रस्तानां जीवनरक्षणस्य संकल्पमपि अकुर्वन्।
मानस-रक्तकेन्द्रे आयोजिते अस्मिन् शिविरे मुख्यतया दानिश-अर्शः, मतीनखानः, शुभम् गुप्तः, दक्षः, अनमोलश्रीवास्तवः, सार्थकः, सुमितपटेलः, आरिफः, हेमन्तः, शुभम् सिंहः, अवधेशः, दीपराजः, अनिलः, अङ्कितः पटेलः, आशीषः तथा राकेशमौर्यः रक्तदानं कृत्वा देशभक्तेः सामाजिकसमरसतायाश्च अनुपमम् उदाहरणम् प्रस्तुतवन्तः। सर्वे रक्तदातारः प्रशस्तिपत्रैः सम्मानिताः।
रक्तदातारः मानवतायाः सन्देशं प्रदाय अवदन् —
“अस्माकं वीरसैनिकाः सीमायां देशरक्षणार्थं स्वसर्वस्वं समर्पयन्ति। वयं सीमां गत्वा युद्धं कर्तुं न शक्नुमः, किन्तु रक्तदानेन कस्यचित् प्राणरक्षणं कृत्वा तान् बलिदानिनः प्रति सत्यां श्रद्धाञ्जलिम् अर्पयितुं शक्नुमः। प्रत्येकं स्वस्थः युवा राष्ट्रसेवारूपे अस्मिन् महादाने उत्साहेन सहभागं कुर्यात्।”
अस्मिन् अवसरे सामाजिकसंस्थायाः ‘सर्व फॉर ह्यूमैनिटी’ प्रतिनिधयः फूलसिंहः मौर्यः, राजेशः मौर्यः, गुरमीतः सिंहः, मनुः द्विवेदी, कुमारशेखरः तथा मानस-रक्तकेन्द्रस्य प्रभारी अमनयादवः, अनुसः पटेलः, विष्णुः, बलरामश्च विशेषरूपेण उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan