Enter your Email Address to subscribe to our newsletters

वाराणसी, 26 जुलाईमासः (हि. स.)।
उत्तरप्रदेशसर्वकारस्य सूक्ष्मलघुमध्यमोद्योगविभागस्य राज्यमन्त्री हंसराजविश्वकर्मा रविवासरे वाराणस्यां स्वनिवासस्थाने पत्रकारैः सह संवादे अवदत् यत् भारतीयजनतापक्षस्य वरिष्ठनेतुः कुशलसङ्गठनकर्तुः अस्माकं सर्वेषां प्रेरणास्रोतसः मार्गदर्शकस्य च पूर्वसङ्गठनमन्त्रिणः तथा पूर्वविधानपरिषद्सदस्यस्य जयप्रकाशचतुर्वेदीमहाभागस्य निधनस्य अत्यन्तं दुःखदः समाचारः प्राप्तः। जयप्रकाशचतुर्वेदीमहाभागस्य समग्रं जीवनं राष्ट्रभक्तेः सङ्गठनस्य प्रति समर्पणस्य सादग्यस्य कर्मनिष्ठायाश्च अनुपमम् उदाहरणम् आसीत्।
राज्यमन्त्री अवदत् यत् जयप्रकाशचतुर्वेदीमहाभागः स्वस्य अथकपरिश्रमेण दूरदर्शिना नेतृत्वेन च असंख्यानां कार्यकर्तृणां मार्गदर्शनम् अकरोत् तथा सङ्गठनस्य सुदृढीकरणे अमूल्यं योगदानम् अददात्। बाबा श्रीकाशीविश्वनाथस्य चरणयोः प्रार्थना यत् दिवङ्गताय पुण्यात्मने स्वश्रीचरणेषु स्थानं प्रददातु तथा शोकसन्तप्तपरिवाराय शुभचिन्तकेभ्यः समग्रभारतीयजनतापक्षपरिवाराय च एतस्य अपरिमितदुःखस्य सहनशक्तिं प्रददातु। तस्मै भावपूर्णा श्रद्धाञ्जलिः समर्प्यते।
---------------
Hindusthan Samachar / अंशु गुप्ता