Enter your Email Address to subscribe to our newsletters

वाराणसी, 26 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीस्थितस्य काशीहिन्दूविश्वविद्यालयस्य प्राचीनभारतीयइतिहाससंस्कृतिपुरातत्त्वविभागस्य छात्रस्य सृजनसिंहस्य इटलीदेशस्य बोलोनियाविश्वविद्यालये पीएचडी अध्ययनार्थं चयनम् अभवत्। सः भारतस्य प्लाइस्टोसीनकालीनजीवाश्मानां जैवअण्वीयाध्ययनविषये अनुसन्धानं करिष्यति। अस्य अनुसन्धानेन भारते प्लाइस्टोसीनकालस्य जीवजन्तूनां वितरणं तेषां विकासक्रमः तस्मिन् काले अभवतां पर्यावरणपरिवर्तनानां च सम्बन्धे महत्त्वपूर्णाः वैज्ञानिकसूचनाः प्राप्तुं सम्भावना अस्ति। एतदध्ययनं प्राचीनजैवविविधतायाः पर्यावरणइतिहासस्य च अवगमने महत्त्वपूर्णं योगदानम् अपि प्रदास्यति। एतां सूचनां रविवासरे विश्वविद्यालयस्य जनसम्पर्काधिकारी प्रदत्तवान्।
तेन उक्तं यत् सृजनसिंहेन वर्षे २०२५ तमे काशीहिन्दूविश्वविद्यालयस्य प्राचीनभारतीयइतिहाससंस्कृतिपुरातत्त्वविभागात् परास्नातकपदवी प्राप्ता। चयनात् पूर्वं सः विभागस्य सहायकाचार्यस्य डॉ जोसटॉमराफेलमहाभागस्य मार्गदर्शने अनुसन्धानस्य सिद्धतां कुर्वन् आसीत्।
सृजनसिंहस्य चयनस्य विषये विभागाध्यक्षः प्रो महेशप्रसादअहिरवारः हर्षं व्यक्तवान्। तेन उक्तं यत् एकादशशतके स्थापितं बोलोनियाविश्वविद्यालयं विश्वस्य प्राचीनतमेषु प्रतिष्ठितेषु च विश्वविद्यालयेषु अन्यतमम् अस्ति। तेन एषा उपलब्धिः विभागस्य काशीहिन्दूविश्वविद्यालयस्य च गौरवपूर्णा उपलब्धिः इति कथिता।
प्रो अहिरवारः एतदपि अवदत् यत् काशीहिन्दूविश्वविद्यालयस्य बोलोनियाविश्वविद्यालयस्य च मध्ये शैक्षणिकसहकार्यसम्बन्धी करारस्य अन्तिमरूपप्रदानस्य प्रक्रिया प्रवर्तते यस्मै कुलपतिना प्रो अजीतकुमारचतुर्वेदिना अनुमोदनं प्रदत्तम्। तेन आशा व्यक्ता यत् अस्मात् सहकार्यादुभयोः संस्थयोः मध्ये अनुसन्धानस्य शैक्षणिकविनिमयस्य च नूतना दिशा प्राप्स्यते।
सृजनसिंहस्य अस्याः उपलब्धेः विषये विभागस्य सर्वे अध्यापकाः अनुसन्धानकर्तारश्च हर्षं व्यक्तवन्तः तस्य उज्ज्वलभविष्याय शुभकामनाश्च प्रदत्तवन्तः।
--------------
Hindusthan Samachar / Dheeraj Maithani