Enter your Email Address to subscribe to our newsletters

वाराणसी, 26 जुलाईमासः (हि.स.)।कारगिलविजयदिवसस्य वर्षगाठायाः अवसरे रविवासरे श्रीकाशीविश्वनाथधाम्नि नमामिगङ्गायाः तत्त्वावधानेन भारतीयसेनायाः अदम्यसाहसस्य शौर्यस्य बलिदानस्य च सम्मानं कृत्वा वीरशहीदसैनिकेभ्यः भावपूर्णा श्रद्धाञ्जलिः समर्पिता। अस्मिन् अवसरे राष्ट्रस्य सुरक्षायै समृद्धये च तथा वीरहुतात्मनां दिवङ्गतानाम् आत्मनां शान्त्यर्थं विशेषप्रार्थना अपि कृता।
कार्यक्रमस्य समये बाबाविश्वनाथधाम्नः गङ्गाद्वारे भारतमातुः प्रतिमायाः पुरतः उपस्थितैः जनैः भारतीयसेनायाः शौर्यवीराः श्रद्धया संस्मृताः। वक्तारः अवदन् यत् राष्ट्ररक्षणार्थं दुर्गमपर्वतीयप्रदेशेषु विषमपरिस्थितिषु च स्वप्राणान् समर्पितवन्तः वीरसैनिकाः सर्वोच्चबलिदानस्य आदर्शरूपेण सर्वेषां देशवासिनां प्रेरणास्रोतः भविष्यन्ति।
नगरनिगमस्य स्वच्छताब्राण्डदूतः गङ्गासेवकश्च राजेशशुक्लः अवदत् यत् कारगिलविजयदिवसः १९९९ तमे वर्षे भारतीयसेनया पाकिस्तानदेशस्य विरुद्धं प्राप्तायाः ऐतिहासिकविजयस्य गौरवगाथायाः प्रतीकः अस्ति। तेन उक्तं यत् कारगिलयुद्धम् अत्यन्तकठिनासु भौगोलिकपरिस्थितिषु उच्चपर्वतीयप्रदेशेषु च अभवत् यत्र भारतीयसैनिकाः अदम्यसाहसं अनुशासनं पराक्रमं च प्रदर्श्य शत्रुं पराजितवन्तः। पुनश्च तेन उक्तं यत् भारतीयसैनिकाः शत्रुभिः घुस्पैठपूर्वकं अधिकृतासु दुर्गमशिखरासु पुनः तिरङ्गध्वजम् आरोप्य राष्ट्रस्य अखण्डतां सार्वभौमत्वं च सुरक्षितवन्तः।
अस्मिन् कार्यक्रमे नीरजसिंहः सौरभपाण्डेयः शशिभूषणपाण्डेयः अर्जुनसिंहः नमनपाण्डेयः गोलूयादवः अङ्कितयादवः शुभमगुप्तः राकेशकुमारः भावेशः इत्यादयः सहभागिनः अभवन्।
Hindusthan Samachar / Dheeraj Maithani