यूनेस्को विश्वसंपद्सूच्यां सम्मिलितः सारनाथः, उत्तर प्रदेशाय अमिलत् चतुर्थविश्वधरोहरस्थलम्
वाराणसी, 26 जुलाईमासः (हि.स.)।प्रायः अष्टाविंशतिवर्षाणां प्रतीक्षानन्तरं भगवान्बुद्धस्य प्रथमधर्मदेशनास्थली सारनाथः यूनेस्को विश्वधरोहरसूच्यां समाविष्टः। दक्षिणकोरियादेशस्य बुसाननगरे आयोजिते यूनेस्को विश्वधरोहरसमितेः अष्टचत्वारिंशत्तमे अधिवेशने शनि
सारनाथ


सारनाथ


वाराणसी, 26 जुलाईमासः (हि.स.)।प्रायः अष्टाविंशतिवर्षाणां प्रतीक्षानन्तरं भगवान्बुद्धस्य प्रथमधर्मदेशनास्थली सारनाथः यूनेस्को विश्वधरोहरसूच्यां समाविष्टः। दक्षिणकोरियादेशस्य बुसाननगरे आयोजिते यूनेस्को विश्वधरोहरसमितेः अष्टचत्वारिंशत्तमे अधिवेशने शनिवासरे सायंकाले अस्य ऐतिहासिकनिर्णयस्य घोषणा कृता। अनेन सह सारनाथः भारतस्य पञ्चचत्वारिंशत्तमः तथा उत्तरप्रदेशस्य चतुर्थः यूनेस्को विश्वधरोहरस्थलः अभवत्। अस्याः उपलब्धेः फलरूपेण बौद्धधर्मस्य पवित्रतमतीर्थस्थलेषु गण्यमानः सारनाथः वैश्विकस्तरे नूतनाम् अभिज्ञानम् अलभत। तेन सह उत्तरप्रदेशस्य बौद्धपरिपथस्य अन्तरराष्ट्रीयपर्यटनस्य सांस्कृतिकविरासतायाश्च मानचित्रे नूतना सुदृढता भविष्यतीति अपेक्षा अस्ति। सारनाथः ३ जुलै १९९८ तमे दिने यूनेस्को संस्थायाः सम्भाव्यविश्वधरोहरसूच्यां समाविष्टः आसीत्। प्रायः अष्टाविंशतिवर्षाणां अनन्तरं प्राप्ता एषा मान्यता उत्तरप्रदेशस्य कृते विशेषमहत्त्वं धारयति। अधुना यावत् राज्यस्य त्रीणि विश्वधरोहरस्थलानि ताजमहलः आग्रादुर्गः फतेहपुरसीकरी च आग्रामण्डलपर्यन्तमेव सीमितानि आसन्। सारनाथस्य समावेशेन प्रदेशस्य विश्वधरोहरपरिचयः पूर्वाञ्चलप्रदेशपर्यन्तं विस्तारितः तथा राज्यस्य समृद्धा बौद्धविरासता वैश्विकीं मान्यतां प्राप्तवती।

चौखण्डीस्तूपः पुरातात्त्विकावशेषाश्च मान्यतां प्राप्तवन्तः

यूनेस्को संस्थया मान्यतां प्राप्तायां अस्यां विश्वधरोहरसम्पत्तौ चौखण्डीस्तूपः सारनाथस्य पुरातात्त्विकपरिसरश्च समाविष्टौ स्तः। उभौ स्थलौ परस्परात् प्रायः षट्शत्षड्विंशतिः मीटरमितदूरे स्थितौ स्तः। चौखण्डीस्तूपः भगवान्बुद्धस्य तेषां प्रथमपञ्चशिष्याणां च मिलनस्य प्रतीकः मन्यते। पुरातात्त्विकपरिसरे धामेकस्तूपः धर्मराजिकास्तूपः प्राचीनविहाराणाम् अवशेषाः अशोकस्तम्भश्च इत्यादीनि महत्त्वपूर्णानि स्मारकाणि सन्ति। एतानि स्मारकाणि सारनाथस्य विश्वस्य प्रमुखबौद्धश्रद्धाकेन्द्रत्वेन ज्ञानकेन्द्रत्वेन च अभवत् इति ऐतिहासिकविकासस्य साक्ष्यं वहन्ति।

बौद्धधर्मे सारनाथस्य विशेषमहत्त्वम्

सारनाथः स एव पवित्रः स्थलः अस्ति यत्र भगवान्बुद्धः ज्ञानप्राप्तेः अनन्तरं प्रथमोपदेशं दत्त्वा धर्मचक्रप्रवर्तनस्य आरम्भम् अकरोत्। प्राचीनबौद्धग्रन्थेषु अस्य उल्लेखः ऋषिपत्तनम् इति नाम्ना लभ्यते। अत्रैव भगवान्बुद्धः स्वेषां प्रथमपञ्चशिष्येभ्यः धर्मोपदेशं दत्त्वा करुणायाः शान्तेः मध्यममार्गस्य च सन्देशं मानवजातये अददात्। प्रायः द्विसहस्रषट्शतवर्षेभ्यः सारनाथः बौद्धश्रद्धायाः तीर्थपरम्परायाः मठजीवनस्य प्राचीनस्थापत्यस्य समृद्धकलाविरासतायाश्च प्रमुखकेन्द्रम् अस्ति। यूनेस्को संस्थायाः एषा मान्यता अस्याः ऐतिहासिकायाः आध्यात्मिकायाश्च विरासतायाः वैश्विकप्रतिष्ठां अधिकां करिष्यति।

अष्टाविंशतिवर्षाणां प्रतीक्षायाः ऐतिहासिकः परिणामः

उत्तरप्रदेशस्य पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः अस्याः उपलब्धेः विषये हर्षं व्यक्तवान् यत् एषः सम्मानः प्रदेशस्य बहुआयामिकसांस्कृतिकसभ्यताविरासतायाः वैश्विकस्तरे प्रतिष्ठापनार्थं निरन्तरप्रयत्नानां परिणामः अस्ति। तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी तथा मुख्यमन्त्री योगीआदित्यनाथयोः नेतृत्वे सर्वकारेण सर्वेषाम् आस्थास्थलानां विरासतिस्थलानां च संरक्षणविकासयोः समानप्राधान्यं प्रदत्तम्। तेन पुनरुक्तं यत् अष्टाविंशतिवर्षाणां प्रतीक्षायाः अनन्तरं सारनाथस्य यूनेस्को विश्वधरोहरपदप्राप्तिः ऐतिहासिकी उपलब्धिः अस्ति। अनेन उत्तरप्रदेशस्य बौद्धपरिपथः नूतनां वैश्विकीं परिचितिं प्राप्स्यति तथा प्रदेशस्य शान्तेः आध्यात्मिकतायाः सांस्कृतिकसमन्वयस्य च सन्देशः विश्वं प्रति अधिकप्रभावकररूपेण प्रसरिष्यति।

सारनाथस्य परिचयः केवलं स्मारकैः न सीमितः

सारनाथस्य यूनेस्को नामाङ्कनप्रक्रियायां महत्त्वपूर्णां भूमिकां निर्वहन्ती संरक्षणस्थापत्यविशेषज्ञा आभानारायणलाम्बा अवदत् यत् सारनाथस्य परिचयः केवलं तस्य स्मारकैः न सीमितः। एषः सः पवित्रः प्रदेशः अस्ति यत्र भगवान्बुद्धः प्रथमधर्मदेशनाम् अददात् बौद्धसङ्घस्य स्थापना अभवत् तथा बौद्धस्थापत्यस्य प्रारम्भिकपरम्पराणां विकासः अभवत्। तया उक्तं यत् प्रायः द्विसहस्रपञ्चशतवर्षेभ्यः अत्र प्रवर्तमानाः जीवन्त्यः बौद्धतीर्थपरम्पराः अस्य स्थलस्य विशिष्टां सांस्कृतिकाम् आध्यात्मिकीं च विरासतां प्रतिष्ठापयन्ति।

पर्यटनाय भविष्यति नूतनः आयामः

पर्यटनसंस्कृतिधर्मार्थकार्यविभागस्य अपरमुख्यसचिवः अमृतअभिजातः एतां उपलब्धिं उत्तरप्रदेशस्य कृते ऐतिहासिकीम् उपलब्धिं कथयन् अवदत् यत् एषः प्रदेशस्य पर्यटनस्थलानां वैश्विकपरिचयप्राप्त्यर्थं निरन्तरप्रयत्नानां परिणामः अस्ति। तेन उक्तं यत् अक्तूबर २०२५ तमे मासि लखनऊनगरस्य यूनेस्को संस्थायाः क्रिएटिवसिटी आफ गैस्ट्रोनॉमी इति मान्यताप्राप्तेः अनन्तरम् अधुना सारनाथस्य विश्वधरोहरसूच्यां समावेशः प्रदेशस्य सांस्कृतिकपरिचयं अधिकं सुदृढं करिष्यति। अनेन विदेशीयपर्यटकानां संख्या वर्धिष्यते तेषां प्रवासकालस्य अवधि अपि वर्धिष्यते तथा उत्तरप्रदेशस्य विस्तीर्णबौद्धपरिपथः वैश्विकस्तरे नूतनां गतिं प्राप्स्यति।

Hindusthan Samachar / Dheeraj Maithani