Enter your Email Address to subscribe to our newsletters

मुम्बईनगरम्, २६ जुलाईमासः (हि.स.)। महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्रफडणवीसः रविवासरे नागपुरे अवदत् यत् धनाभावात् अधुना कस्यापि निर्धनस्य कापि शल्यचिकित्सा न स्थगिष्यति। एतस्यैव उद्देश्यार्थं राज्यसर्वकारः विविधाभिः स्वास्थ्ययोजनाभिः आवश्यकाम् आर्थिक-सहायतां प्रददाति।
मुख्यमन्त्री फडणवीसः अद्य मुख्यमन्त्री-चिकित्सासहायतानिधेः तथा धर्मादाय-चिकित्सालय-सहायताकक्षस्य सौजन्येन धनवटे-नेशनल-महाविद्यालय-परिसरे आयोजितं महा-आरोग्यशिविरम् सम्बोधयन् अवदत् यत् समाजस्य अन्तिमव्यक्तेः पर्यन्तं गुणवत्तायुक्ताः स्वास्थ्यसेवाः प्रापयितुम् अस्य शिविरस्य प्रमुखम् उद्देश्यम् अस्ति। राज्यसर्वकारेण स्वास्थ्यसेवानां विस्तारार्थं अनेके महत्त्वपूर्णाः निर्णयाः कृताः। चिकित्सा-लयानां सङ्ख्या वर्धिता अस्ति, तथा महात्मा-फुले-जन-आरोग्य-योजनायां पूर्वम् असमाविष्टाः अनेके गम्भीररोगाः अपि समावेशिताः सन्ति।
मुख्यमन्त्री उक्तवान् यत् गत-सार्धैकवर्षे मुख्यमन्त्री-चिकित्सासहायतानिधेः माध्यमेन ५७ सहस्रं रोगिणां चिकित्सार्थं ४५२ कोटिः रूप्यकाणां सहायता प्रदत्ता। धर्मादाय-चिकित्सालयेषु निर्धनरोगिभ्यः आरक्षितशय्यानां प्रभावी-उपयोगं सुनिश्चितं कर्तुं डिजिटल-व्यवस्था अपि विकसिताऽस्ति।
सः पुनरपि अवदत् यत् महात्मा-फुले-जन-आरोग्य-योजनायाः अन्तर्गतं चिकित्सायाः ५ लक्षरूप्यकाणां सीमातः अधिकव्यययुक्तानां प्रायः दश गम्भीररोगाणां कृते सर्वकारः ९ लक्षरूप्यकाणां पर्यन्तम्, केषाञ्चन विशेषरोगाणां चिकित्सार्थं ३५ लक्ष-रूप्यकाणां पर्यन्तम् आर्थिकसहायतां प्रदातुं नीतिनिर्माणकार्ये प्रवृत्तः अस्ति।
अस्मिन् अवसरे केन्द्रीय-सड़क-परिवहन-राजमार्गमन्त्री नितिन-गडकरी, पालकमन्त्री चन्द्रशेखर-बावनकुले, कौशल-विकासमन्त्री मङ्गलप्रभात-लोढा, सांसदः अजित-गोपचड़े, विधायकाः प्रवीण-दटके, संजय-भेंडे, मोहन-मते, राजीव-पोतदारः, महापौरा नीता-ठाकरे, शिवाजी-शिक्षण-संस्थायाः अध्यक्षः हर्षवर्धन-देशमुखः तथा अन्ये बहवः गणमान्याः उपस्थिताः आसन्।
Hindusthan Samachar / अंशु गुप्ता