कारगिल-विजय-दिवसः - राज्यपालेन बलिदानिभ्यः श्रद्धाञ्जलिः अर्पिता, वीर-नारीणां पूर्वसैनिकानां च सम्मानं कृतम्
देहरादूननगरम्, २६ जुलाईमासः (हि.स.)। कारगिल-विजय-दिवसस्य अवसरे उत्तराखण्डस्य राज्यपालः लेफ्टिनेण्ट-जनरल् गुरमीतसिंहः रविवासरे देहरादूनस्य चीड़बाग-स्थिते शौर्य-स्थले पुष्पचक्रं समर्प्य कारगिल-युद्धस्य अमर-बलिदानिभ्यः श्रद्धाञ्जलिम् अर्पितवान्। अस्मि
देहरादून के चीड़बाग स्थित शौर्य स्थल पर  कारगिल युद्ध के अमर बलिदानियों  को श्रद्धांजलि देते हुए राज्यपाल  ।


देहरादूननगरम्, २६ जुलाईमासः (हि.स.)। कारगिल-विजय-दिवसस्य अवसरे उत्तराखण्डस्य राज्यपालः लेफ्टिनेण्ट-जनरल् गुरमीतसिंहः रविवासरे देहरादूनस्य चीड़बाग-स्थिते शौर्य-स्थले पुष्पचक्रं समर्प्य कारगिल-युद्धस्य अमर-बलिदानिभ्यः श्रद्धाञ्जलिम् अर्पितवान्। अस्मिन् अवसरे सः बलिदानिनां परिवारजनान्, वीर-नारीः, शौर्य-पुरस्कार-प्राप्त-सैनिकान् तथा समाजस्य राष्ट्रस्य च हिते उत्कृष्टं योगदानं प्रदत्तवन्तः पूर्वसैनिकान् सम्मानितवान्।

राज्यपालः अवदत् यत् कारगिल-युद्धे भारतीय-सैनिकैः मातृभूमेः रक्षणार्थं सर्वोच्चं बलिदानं कृतम्। तेषां त्यागः, साहसम्, समर्पणं च सम्पूर्णस्य राष्ट्रस्य कृते प्रेरणायाः गौरवस्य च विषयः अस्ति। सः उक्तवान् यत् कारगिल-विजय-दिवसः केवलं सैन्य-विजयस्य प्रतीकं न, अपितु भारतस्य राष्ट्रीय-अस्मितायाः, सार्वभौमत्वस्य, अदम्य-साहसस्य, अटूट-आत्मविश्वासस्य च प्रतीकः अस्ति।

सः वीर-नारीः तथा बलिदानी-परिवारान् सम्बोधयन् अवदत् यत् तासां धैर्यम् आत्मबलं च समाजस्य प्रेरणास्रोतः अस्ति। सः आश्वासनम् अयच्छत् यत् सम्पूर्णं राष्ट्रम्, भारतीय-सेना, सैनिक-परिवाराश्च सर्वासु परिस्थितिषु ताभि: सह स्थास्यन्ति।

राज्यपालः अवदत् यत् कारगिल-युद्धम् अत्यन्त-विषम-परिस्थितिषु लब्धम्, किन्तु दुर्गम-पर्वतीय-प्रदेशेषु, प्रतिकूल-वातावरणे, प्राणवायोः न्यूनतायामपि भारतीय-सैनिकैः अद्वितीयः पराक्रमः प्रदर्शितः तथा विजयः प्राप्तः। सः नागरिकान् बलिदानिनाम् आदर्शेभ्यः प्रेरणां गृहीत्वा राष्ट्रनिर्माणे योगदानं दातुं तथा बलिदानी-परिवाराणां सम्मान-कल्याणौ प्रति संवेदनशीलान् भवितुम् आहूतवान्।

कार्यक्रमे जी.ओ.सी. उपक्षेत्रस्य मेजर-जनरल एम.पी.एस. गिलः, सेनायाः, नौसेनायाः, वायुसेनायाश्च वरिष्ठ-अधिकारिणः, जे.सी.ओ.-अधिकारिणः, सैनिकाः, एन.सी.सी.-कैडेट, विद्यालयीय-छात्राः, वीर-नारीः, बलिदानिनां मातरः तथा पूर्वसैनिकाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan