Enter your Email Address to subscribe to our newsletters

नई दिल्लीमासः, 27 जुलाईमासः (हि.स.)।
आम आदमी दलस्य राष्ट्रियसंयोजकेन देहल्याः पूर्वमुख्यमन्त्रिणा अरविन्दकेजरिवालेन उक्तं यत् दलः अगस्तमासस्य प्रथमदिने नवीनदेहल्यां कन्स्टिट्यूशनक्लबे ई२० इन्धनविरोधे नेशनल टाउन हॉल अगेंस्ट ई२० इति कार्यक्रमस्य आयोजनं करिष्यति। तेन उक्तं यत् अस्य कार्यक्रमस्य उद्देश्यः ई२० इन्धनेन सम्बद्धान् विषयान् अधिकृत्य विशेषज्ञान् प्रभावितवाहनस्वामिनः सामान्यजनांश्च एकस्मिन् मञ्चे समानेतुं वर्तते।
अरविन्दकेजरिवालेन सोमवासरे दलकार्यालये आयोजितायां पत्रकारवार्तायामुक्तं यत् देशस्य सर्वेभ्यः भागेभ्यः जनाः ई२० इन्धनस्य विषये शिकायताः कुर्वन्ति। तेषां वाहनानि दूष्यन्ते तथा च इन्धनव्ययस्य परिणामः अपि प्रतिकूलः भवति। तेन प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति अस्मिन् विषये हस्तक्षेपं कृत्वा समाधानं निष्पादयितुमपीला कृता।
पूर्वमुख्यमन्त्रिणा उक्तं यथा युवानां संयुक्तस्वरस्य अनन्तरं केन्द्रीयमन्त्री धर्मेन्द्रप्रधानः स्वपदात् त्यागपत्रं दातुम् अभवत् तथैव ई२० विषयमधिकृत्य अपि जनानां सङ्गठितरूपेण स्वमतस्य प्रस्तुतीकरणम् आवश्यकम्। तेन उक्तं यत् एषः विषयः महद्रूपं धारयितुं पूर्वमेव शासनस्य समाधानं करणीयम्।
तेन सूचितं यत् नेशनल टाउन हॉल अगेंस्ट ई२० इति कार्यक्रमः शनिवासरे मध्याह्ने द्वादशवादने प्रारभिष्यते। देहलीपरिसरप्रदेशेषु निवसन्तः जनाः प्रातः सार्धैकादशवादनपर्यन्तं कन्स्टिट्यूशनक्लबे उपस्थितुं तेन आहूताः। ये जनाः देहल्याः बहिः निवसन्ति ते अपि अन्तर्जालमाध्यमेन कार्यक्रमे सहभागीभवितुं शक्नुवन्ति। तदर्थं ८५८३२१२ ८५८३२१२ इति सङ्ख्यायां व्हाट्सएपसन्देशः प्रेषणीयः। ततः शुक्रवासरसायंकालपर्यन्तम् अन्तर्जालसम्पर्कसूत्रं प्रदास्यते।
केजरिवालेन उक्तं यत् अस्मिन् टाउनहॉलकार्यक्रमे ई२० विषये विशेषज्ञाः प्रभावितवाहनस्वामिनः अस्मिन् विषये रुचिं वहन्तः जनाश्च स्वविचारान् प्रस्तोष्यन्ति। कार्यक्रमे अग्रिमरणनीतिरपि निर्धारयिष्यते यथा शासनस्य उपरि ई२० नीतेः प्रत्याहाराय कथं दबावः स्थापनीयः।
तेन सूचितं यत् प्रधानमन्त्रिणः नाम्ना ई२० विरोधे प्रारब्धायाः अन्तर्जालयाचिकायाः अद्यावधि द्विलक्षाधिकजनानां समर्थनं प्राप्तम्। केजरिवालेन उक्तं यत् सः आगामिसप्ताहे ताम् याचिकां गृहीत्वा प्रधानमन्त्रिणा सह अपि मिलिष्यति। सहैव तेन जनाः अधिकाधिकसङ्ख्यया प्रत्यक्षरूपेण अथवा अन्तर्जालमाध्यमेन कार्यक्रमे सहभागीभवितुम् आहूताः।
--------------
Hindusthan Samachar / Dheeraj Maithani