Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, २७ जुलाईमासः (हि.स.)। जनपद-पञ्चायतः सभागारे सोमवासरे शिक्षा-समित्याः सभापतेः बलदेव-मण्डावी-महोदयस्य अध्यक्षतायां सम्पन्नायां शिक्षा-समित्याः सभायां जनपदस्य शिक्षाव्यवस्थां सुदृढां कर्तुं शैक्षणिक-गुणवत्तां च उन्नेतुं बहुषु महत्त्वपूर्णेषु विषयेषु विस्तृतः विचार-विमर्शः अभवत्। सभायां जनपदस्य शिक्षाप्रणाल्याः विविधानां व्यावहारिक-प्रशासनिक-पक्षाणां समीक्षाऽपि कृता।
अस्मिन्नेव क्रमे एकल-शिक्षकयुक्तानां शिक्षक-विहीनानां च विद्यालयानां स्थितेः विषये विशेष-चर्चा अभवत्। संलग्नीकरणस्य समाप्तेः अनन्तरं शिक्षकेभ्यः स्वस्व-मूल-विद्यालयेषु पुनः प्रेषणसम्बद्ध-निर्देशानां विषये विचारः कृतः। तेन सह मरम्मतयोग्यानां विद्यालय-भवनानां स्थितेः समीक्षां कृत्वा तेषां आवश्यक-सुधार-रक्षणयोः विशेषं बलं प्रदत्तम्।
तथैव योजनानां शैक्षणिक-प्रक्रियाणां च समीक्षायां स्वामी-आत्मानन्द-विद्यालयेषु नियमानुसारं पारदर्शिनी प्रवेश-प्रक्रिया तथा ‘सरस्वती-साइकिल-योजना’ अन्तर्गतं बालिकाभ्यः प्रदत्तानां द्विचक्रिकाणाम् उपयोगेन विद्यालय-आगमनस्य प्रोत्साहने बलं दत्तम्। सामुदायिक-सहभागितायाः संवर्धनार्थं विद्यालय-प्रबन्धन-समितेः पुनर्गठनं तासां नियमित-सभानाम् आयोजनं च विषयेऽपि चर्चा अभवत्। विद्यार्थिनां स्वास्थ्य-सुरक्षयोः प्राधान्यं दत्त्वा आश्रमेषु छात्रावासेषु च बालकानां नियमित-स्वास्थ्य-परीक्षणं, ऋतुजन्य-रोगेभ्यः संरक्षणं तथा पर्याप्त-मशकनिरोधीनां व्यवस्थां सुनिश्चितुं निर्देशाः अपि प्रदत्ताः।
शैक्षणिक-गुणवत्तायाः विषये केन्द्रितायां चर्चायां जनपद-शिक्षाधिकारी बी.आर.-बघेल-महोदयः अग्रिम-शैक्षणिक-सत्रस्य २०२६–२७ कृते शिक्षा-विभागेन निर्मितायाः विशेष-कार्ययोजनायाः विषये सूचनाम् अयच्छत्। सः उपस्थितान् अवगतवान् यत् शत-प्रतिशत-परीक्षा-फलस्य प्राप्त्यर्थं विद्यार्थिनां अधिगम-स्तरस्य उन्नयनार्थं च सार्थक-प्रयत्नाः क्रियमाणाः सन्ति।
अस्यां सभायां जनपद-पञ्चायतस्य सदस्याः बनवासी-मौर्यः, कामदेव-बघेलः, श्रीमती शकुन्तला-कश्यपः, श्रीमती ललिता-कश्यपः, विभागीय-अधिकारिषु डी.एम्.सी. अशोक-पाण्डेयः, ए.डी.पी.ओ. श्रीमती जयन्ती-कश्यपः, ए.पी.सी. राकेश-खापर्डे, सर्वेषां विकासखण्डानां विकासखण्ड-शिक्षाधिकारीणः, खण्ड-स्रोत-समन्वयकाः च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan