३० अगस्तपर्यन्तम् अन्नपूर्णा-योजनायां सर्वासां पात्राणां महिलानां पञ्जीकरणं सम्पन्नं भविष्यति : मुख्यमन्त्री
कोलकातानगरम्, २७ जुलाईमासः (हि.स.)। मुख्यमन्त्री शुभेन्दु-अधिकारी उक्तवान् यत् अन्नपूर्णा-योजनायाः अन्तर्गतं पात्रमहिलानां तथ्यानां सत्यापनं द्रुतगत्या प्रचलति तथा च ३० अगस्तपर्यन्तं सर्वासां योग्यलाभार्थिनीमहिलानां पञ्जी-करणं सम्पन्नं भविष्यति। ते
शुभेंदु अधिकारी


कोलकातानगरम्, २७ जुलाईमासः (हि.स.)। मुख्यमन्त्री शुभेन्दु-अधिकारी उक्तवान् यत् अन्नपूर्णा-योजनायाः अन्तर्गतं पात्रमहिलानां तथ्यानां सत्यापनं द्रुतगत्या प्रचलति तथा च ३० अगस्तपर्यन्तं सर्वासां योग्यलाभार्थिनीमहिलानां पञ्जी-करणं सम्पन्नं भविष्यति। तेन आश्वासनं दत्तं यत् पात्रतायाः आधारेण काप्यपि योग्य-महिला योजनालाभात् वञ्चिता न भविष्यति।

उत्तरबङ्गप्रदेशस्य प्रवासे स्थितः मुख्यमन्त्री सोमवासरे जलपाईगुडी-नगरे पत्रकारैः सह संवादे अवदत् यत् अनेकासां महिलानां वित्तकोषेषु जून-जुलाई-मासयोः राशिः प्रापिता अस्ति, अपरासां तु आवेदनपत्राणां सत्यापनं अद्यापि प्रचलति। तेन उक्तं यत् सत्यापनप्रक्रियायाः समाप्तेः अनन्तरं सर्वाभ्यः पात्राभ्यः महिलाभ्यः योजनायाः लाभः प्रदास्यते।

राज्ये सर्वकारस्य गठनानन्तरं प्रवर्तितासु प्रमुखयोजनासु अन्नपूर्णा-योजना अपि अन्तर्भवति। अस्याः योजनायाः अन्तर्गतं पात्रमहिलाभ्यः प्रतिमासं ३००० रूप्यकाणां आर्थिकसाहाय्यं प्रदीयते। बहुसंख्याभिः महिलाभिः आवेदनानि कृतानि सन्ति तथा च अनेकाभ्यः लाभार्थिनीभ्यः साहाय्यराशिः प्रदत्ता अस्ति। येषां पात्रमहिलानां नामानि अद्यापि लाभार्थिनीसूच्यां न समाविष्टानि, ताः अपि ३० अगस्तपर्यन्तं पञ्जीकृताः भविष्यन्ति इति मुख्यमन्त्री आश्वासनम् अयच्छत्।

मुख्यमन्त्री प्रधानमन्त्री-कृषक-सम्मान-निधि-योजनामपि उल्लिखितवान्। तेन उक्तं यत् केन्द्रसर्वकारेण सह राज्यसर्वकारोऽपि कृषकेभ्यः आर्थिक-साहाय्यं प्रददाति। किसान-बन्धु-योजनायाः सत्यापनप्रक्रियायाः समाप्तेः अनन्तरं येषां कृषकाणां समीपे कृषियोग्या भूमिः अस्ति, तेभ्यः ४००० रूप्यकाणां साहाय्यं प्रदास्यते। अस्य कृते पात्रतानिर्धारणस्य सीमायाश्च व्यवस्था अपि कृता अस्ति।

मुख्यमन्त्री शुभेन्दु-अधिकारी अद्यतन-काले सिक्किमप्रदेशे जातायां सुरङ्ग-दुर्घटनायां उत्तरबङ्गप्रदेशस्य प्रवासी-श्रमिकाणां निधनानन्तरं तेषां परिजनान् प्रति सान्त्वनां प्रदातुं परिस्थितेः समीक्षां कर्तुं च जलपाईगुडी-नगरम् आगतः। अस्मिन्नेव अवसरे तेन जनपद-प्रशासन-कार्यालये पत्रकारान् सम्बोधितवान्।

Hindusthan Samachar / Divya Ranjan