जलप्प्रलावनेन प्रभावितस्य चराईदेव-शिवसागरस्य 100 प्राथमिक विद्यालयेभ्यो द्वि-द्विलक्षरुप्यकाणां सहायता मेलिष्यति : मुख्यमंत्री
गुवाहाटी, 27 जुलाईमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वशर्मा फेसबुकलाइवमाध्यमेन गतायां रात्रौ घोषणा कृतवान् यत् बाढाप्रभावितयोः चराईदेवशिवसागरजिल्लयोः शतं प्राथमिकविद्यालयानां प्रत्येकस्मै द्वौ लक्षौ रूप्यकौ आर्थिकसहायतारूपेण प्र
Image of the Assam CM Dr Himanta Biswa Sarma Facebook Live.


गुवाहाटी, 27 जुलाईमासः (हि.स.)।

असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वशर्मा फेसबुकलाइवमाध्यमेन गतायां रात्रौ घोषणा कृतवान् यत् बाढाप्रभावितयोः चराईदेवशिवसागरजिल्लयोः शतं प्राथमिकविद्यालयानां प्रत्येकस्मै द्वौ लक्षौ रूप्यकौ आर्थिकसहायतारूपेण प्रदास्येते।

मुख्यमन्त्रिणा उक्तं यत् एषा राशि विद्यालयानां मरम्मतकार्येषु, छात्राणां शिक्षासम्बद्धावश्यकतानां पूर्तौ, विद्यालयवेशप्रदाने च व्ययिता भविष्यति। तेन उक्तं यत् समाजसेवी आध्यात्मिकसंस्था सत्सङ्गेन प्रदत्तयोः द्वयोः कोट्योः रूप्यकयोः साहाय्येन एषा आर्थिकसहायता प्रदीयते।

डॉ. शर्मा एतदपि घोषितवान् यत् आगामिनः अगस्तमासस्य प्रथमदिनात् असमविधानसभायाः सत्रसमाप्तेः अनन्तरं राज्यसर्वकारस्य सर्वे मन्त्रिणः बाढाप्रभावितजिलानां प्रवासं करिष्यन्ति।

तेन उक्तं यत् मन्त्रिणः प्रभावितक्षेत्राणां निरीक्षणं कृत्वा हानिमूल्याङ्कनं करिष्यन्ति तथा पुनर्निर्माणपुनर्वासकार्याणि शीघ्रतया प्रवर्तयितुं आवश्यकानि पदानि स्वीकर्तुं प्रयतिष्यन्ते। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः बाढाप्रभावितक्षेत्राणां पुनर्निर्माणाय पूर्णतया प्रतिबद्धः अस्ति।

-----------

Hindusthan Samachar / Dheeraj Maithani