Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 27 जुलाईमासः (हि.स.)।
असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा सोमवासरे केन्द्रीयरिजर्वपुलिसबलस्य स्थापनादिवसावसरे बलस्य सर्वेभ्यः जवानेभ्यः शुभकामनाः हार्दिकां श्रद्धाञ्जलिं च अर्पितवान्।
सामाजिकमाध्यमे प्रसारिते स्वसन्देशे मुख्यमन्त्री उक्तवान् यत् केन्द्रीयरिजर्वपुलिसबलस्य वीरजवानाः देशस्य सुरक्षां सुनिश्चितां कुर्वन्तः असमराज्यस्य बाढाप्रभावितेषु क्षेत्रेषु अपि जनैः सह स्कन्धेन स्कन्धं संयोज्य साहसेन मानवतया अटलकर्तव्यनिष्ठया च सेवां कुर्वन्ति।
मुख्यमन्त्री उक्तवान् यत् राष्ट्रसेवां प्रति केन्द्रीयरिजर्वपुलिसबलस्य जवानानां समर्पणभावः तेषाम् अतुलनीयं योगदानं च सर्वेषां प्रेरणाप्रदम् अस्ति। तेन देशस्य एतेषां वीरजवानानां निःस्वार्थसेवायै गाढां कृतज्ञतां प्रकट्य तेषां उज्ज्वलभविष्यस्य निरन्तरसफलतायाश्च शुभकामनाः प्रदत्ताः।
-----------
Hindusthan Samachar / Dheeraj Maithani