कच्छपगत्या भवति भोलानाथोन्नतसेतोः निर्माणम्, अधुना जून 2027 यावत् पूर्णस्य आशा
भागलपुरम्, 27 जुलाईमासः (हि.स.)। नगरस्य भीषणयातायातावरोधात् जलावरोधसमस्यायाश्च मुक्त्यर्थं निर्मीयमाणः मिरजानहाटस्थितशीतलास्थानात् भीखनपुरगुम्टीसङ्ख्या त्रयपर्यन्तं बहुप्रतीक्षितः भोलनाथरेलमार्गोपरिसेतुः स्थानीयनिवासिनां कृते महतीं समस्यां जातः अ
निर्माणाधीन ओवरब्रिज


भागलपुरम्, 27 जुलाईमासः (हि.स.)।

नगरस्य भीषणयातायातावरोधात् जलावरोधसमस्यायाश्च मुक्त्यर्थं निर्मीयमाणः मिरजानहाटस्थितशीतलास्थानात् भीखनपुरगुम्टीसङ्ख्या त्रयपर्यन्तं बहुप्रतीक्षितः भोलनाथरेलमार्गोपरिसेतुः स्थानीयनिवासिनां कृते महतीं समस्यां जातः अस्ति।

निर्माणकार्यस्य अत्यन्तमन्दगत्या अस्मिन् मार्गे प्रतिदिनं सहस्रशः जनाः भीषणयातायातावरोधेन, उड्डीयमानधूल्या, जलभरणसमस्यया च गम्भीररूपेण पीडिताः भवन्ति। आधिकारिकविवरणानुसारम् अस्य १३९३ मीटरदीर्घस्य उपरिसेतोः निर्माणकार्यं २० जून २०२३ दिनाङ्के आरब्धम् आसीत्। एतत् कार्यं द्विवर्षाभ्यन्तरे अर्थात् जून २०२५ पर्यन्तं सम्पन्नं भविष्यति इति प्रारम्भिकः करारः आसीत्। किन्तु निर्माणसंस्थायाः श्रीरामएण्टरप्राइजेस तथा विभागस्य च प्रमादात् एषा प्रथमा समयसीमा असफलाभवत्। ततः लक्ष्यकालः जून २०२६ पर्यन्तं विस्तारितः, किन्तु निर्माणकार्यस्य गतौ सुधाराभावात् एषा समयसीमा अपि निष्फला अभवत्। समीपे काले बिहारविधानसभायां भागलपुरस्य स्थानीयविधायकेन रोहितपाण्डेयेन उत्थापितस्य प्रश्नस्य लिखितोत्तरेण राज्यसर्वकारेण स्पष्टतया उक्तं यत् इदानीं एषा परियोजना ३० जून २०२७ दिनाङ्कपर्यन्तं सम्पादयितुं अन्तिमा समयसीमा निर्धारिता अस्ति।

यदा अस्य उपरिसेतोः निर्माणयोजना निर्मिता तदा अस्य प्रारम्भिकव्ययः ५९ कोटिरूप्यकाणि इति निर्धारितः आसीत्। किन्तु द्वयोः मुख्यरेलमार्गयोः उपरि गन्तव्यत्वात् अस्य दीर्घता प्रायः १२५ मीटरपरिमाणेन वर्धिता तथा सम्पर्कमार्गनिर्माणार्थम् अतिरिक्तभूम्यधिग्रहणस्य आवश्यकता अभवत्। सम्प्रति सम्पूर्णपरियोजनायाः संशोधितव्ययः ८७ कोटिरूप्यकाणि पर्यन्तं प्राप्तः अस्ति। अस्मात् व्ययात् प्रायः ५४ कोटिरूप्यकाणि केवलं प्रभावितभूमिस्वामिभ्यः भूमिप्रतिपूर्तिरूपेण प्रदेयानि सन्ति।

सेतुनिर्माणनिगमस्य अधिकारिणां प्रगतिविवरणस्य च अनुसारं निर्माणकार्यस्य विलम्बस्य द्वे प्रमुखे कारणे स्तः। भोलनाथ तथा बौंसी रेलमार्गयोः उपरि निर्माणकारणात् रेलविभागात् संरचनाचित्रम् अनापत्तिप्रमाणपत्रं च प्राप्तुं दीर्घः कालः अभवत्। दीर्घकालात् प्रलम्बिता एषा बाधा सम्प्रति प्रायेण निराकृता अस्ति। अपरं तु उपरिसेतोः सम्पर्कमार्गनिर्माणार्थं वार्डसङ्ख्या ३७, ४६, ४८ क्षेत्रेषु कुलं ६० डेसिमलपरिमितभूम्याः अधिग्रहणकार्यं अद्यापि अन्तिमचरणे एव प्रलम्बितम् अस्ति। अतः मुख्यमार्गस्य संयोजनं न सम्भवति।

विभागस्य अनुसारम् अद्यावधि उपरिसेतोः प्रायः ९६ प्रतिशतं आधारनिर्माणकार्यं, ७६ प्रतिशतं अधःसंरचनाकार्यं तथा ६० प्रतिशतं उपरिसंरचनाकार्यं सम्पन्नम् अस्ति। निर्माणस्थलस्य समीपवर्तिनः वणिजः निवासीजनाश्च वदन्ति यत् त्रिवर्षेभ्यः मार्गस्य अवरोधात् तेषां व्यापारः पूर्णतया प्रभावितः अभवत्। अल्पवृष्टौ अपि अधोमार्गस्य दूषितजलम् जनानां गृहेषु प्रविशति। स्थानीयनागरिका चेतावनीं दत्तवन्तः यत् यदि प्रशासनं युद्धस्तरेण कार्यं प्रवर्त्य शीघ्रातिशीघ्रं वैकल्पिकमार्गस्य अथवा सेवामार्गस्य व्यवस्था न करिष्यति तर्हि ते उग्रान्दोलनं कर्तुं बाध्याः भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani