Enter your Email Address to subscribe to our newsletters

अभिनेत्री भूमिपेडणेकरा निर्देशकस्य सन्दीपसिंहस्य आगामिन्यां ऐतिहासिकचलच्चित्रकृतौ द प्राइड ऑफ भारत छत्रपतौ शिवाजी महाराजे महत्त्वपूर्णां भूमिकां निर्वहिष्यति। अस्मिन् चलच्चित्रे सा वीराङ्गना रानी बेलावाडी मल्लम्मा इत्यस्याः पात्रं साकारयिष्यति। अभिनेता ऋषभशेट्टी छत्रपति शिवाजी महाराजस्य भूमिकायां दृश्यिष्यते। चलच्चित्रस्य कलाकारमण्डले अर्जुनरामपालः विवेकओबेरॉयश्च अपि सम्मिलितौ स्तः।
एतत् ऐतिहासिकनाट्यचलच्चित्रं द्वयोः भागयोः निर्मीयते। अस्मिन् छत्रपति शिवाजी महाराजस्य जीवनम्, तस्य शौर्यम्, ऐतिहासिकयोगदानं च भव्यरूपेण विशालपटले प्रस्तूयिष्यते। चलच्चित्रस्य कथा ऋषिविरमाणी विरचितवान्। सङ्गीतं अमितत्रिवेदी विरचितवान् तथा गीतानि प्रसूनजोशी विरचितवान्। निर्माता निर्देशकः सन्दीपसिंहः एतां परियोजनां महता परिमाणेन सिद्धां करोति।
अधुना चलच्चित्रस्य पूर्वनिर्माणकार्यं तीव्रगत्या प्रवर्तते तथा अस्य चित्रीकरणं अस्य वर्षस्य अन्त्यभागे प्रारभ्यते इति सम्भावना वर्तते। अस्मिन् मध्ये ऋषभशेट्टेः समीपे अन्यदपि महत् चलच्चित्रपरियोजना जय हनुमान अस्ति, यस्मिन् सः मुख्यभूमिकां निर्वहिष्यति। द प्राइड ऑफ भारत छत्रपति शिवाजी महाराजः इति चलच्चित्रं भारतीयइतिहासस्य वीरतायाश्च आधारे निर्मितेषु अत्यन्तमहत्त्वाकाङ्क्षिषु चलच्चित्रेषु अन्यतमम् इति मन्यते।
हिन्दुस्थान समाचार / Dheeraj Maithani