Enter your Email Address to subscribe to our newsletters

नवदेहली, २७ जुलाईमासः (हि.स.)। भारतीयजनतापक्षेण सन्तशिरोमणेः श्रीगुरु-रविदासस्य ६५०-तम-जयन्ती-वर्षस्य अवसरः देशव्यापी “समरसता-सङ्कल्प-अभियानम्” आयोजयितुं घोषणा कृता। एतत् अभियानं २९ जुलाई २०२६ आरभ्य २० फरवरी २०२७ (माघपूर्णिमा) पर्यन्तं देशस्य सर्वेषु प्रदेशेषु आयोजयिष्यते।
भाजपा-मुख्यालये सोमवासरे आयोजितायां पत्रकारवार्तायां महासचिवः तरुण-चुगः अवदत् यत् अस्य अभियानस्य उद्देश्यं सन्त-गुरु-रविदास-महाराजस्य समता, सामाजिकन्याय, सेवा, सद्भावना, सामाजिकसमरसता च इत्येतेषां सन्देशान् जनं जनं प्रति प्रापयितुं तथा विकसितभारतस्य निर्माणे समाजस्य सर्वेषां वर्गाणां सहभागितां सुनिश्चितां कर्तुम् अस्ति।
तेन उक्तं यत् अभियानस्य प्रारम्भः २९ जुलाईमासे “समरसता-दीप-महोत्सवेन” भविष्यति। अस्मिन् अवसरे देशव्यापि मन्दिरेषु दीपप्रज्वालन-कार्यक्रमाः आयोजयिष्यन्ते। तदतिरिक्तं “कलश-वन्दन-अभियानस्य” अन्तर्गतं वाराणस्यां स्थितायाः श्रीगुरु-रविदास-जन्मस्थल्याः सीर-गोवर्धनपुरस्य पवित्रमृत्तिकया पूर्णाः कलशाः देशस्य सर्वेषु राज्येषु, जनपदेषु, ग्रामेषु च प्रेषयिष्यन्ते।
सः अवदत् यत् ५ अक्टोबरतः ५ नवम्बर २०२६ पर्यन्तं डेरा-सचखण्ड-बल्लां इत्यस्मात् सीर-गोवर्धनपुरं यावत् “श्रीगुरु-रविदास-महाराज-समरसता-यात्रा” निष्कासयिष्यते। यात्रायाः समये सन्त-सम्मेलनानि, समरसता-गोष्ठ्यः, भजन-कीर्तनानि, सांस्कृतिक-कार्य-क्रमाश्च आयोजयिष्यन्ते।
तदतिरिक्तं २६ नवम्बर २०२६ आरभ्य १५ जनवरी २०२७ पर्यन्तं छात्रावासेषु “समरसता-संवाद” कार्यक्रमाः आयोजयिष्यन्ते, येषां माध्यमेन युवभ्यः सन्त-गुरु-रविदासस्य जीवनम्, विचाराः, सामाजिकसमरसतायाः सन्देशश्च परिचाययिष्यते।
अन्ते सः अवदत् यत् सन्त-गुरु-रविदासस्य जीवनं तस्य विचाराश्च सामाजिकसमानतायै, आत्मसम्मानाय, मानवतायै च प्रेरणां ददति। अयम् अभियानः केवलं कार्यक्रमाणां शृङ्खला न, अपितु सामाजिकसमरसतायाः, राष्ट्रियैक्यस्य, विकसितभारतनिर्माणस्य च कृते व्यापक-जनसहभागितायाः महत्त्व-पूर्णः प्रयासः भविष्यति।
Hindusthan Samachar / Divya Ranjan